________________
द्वितीय: पल्लवः ]
अथवा भद्र कोऽसि त्वं कस्मात् स्थानादिहागतः ? | स्वरूपं वद सत्यं स्वं, श्रुत्वा यन्मे सुखं भवेत् ॥४०७|| इत्युक्ते धर्मदत्तोऽपि, स्मित्वाऽवादीद्वरानने ! । मम स्थानादिकं सर्व्वं, त्वयैवोक्तं समासतः ॥४०८॥ स्वरूपं सकलं तस्या, धर्म्मदत्तेन भाषितम् । अथ तस्या भुजो वामः, स्फुरितः प्रीतिहेतवे ॥ ४०९॥ अङ्गस्य चेष्टया ज्ञातं, तयाऽसौ धर्मदत्तकः । हृदीति निश्चयं कृत्वा, दधौ लज्जाभरं च सा ॥४१०॥ प्रीत्या वाचं तदोवाच कुमारं प्रति कन्यका । सानुकूलेन दैवेन, चक्रे सङ्गम आवयोः ॥४११॥ अहो क्व क्वावयोः स्थाने, दूरे भूमिरियं क्व च ? | परं पुण्याद्भवेन्नृणामसंभाव्यमपि ध्रुवम् ॥४१२॥ कुमारः प्राह जानासि, लग्नस्य दिवसः कदा ? | दिनानि गणयित्वा सा, प्रोचेऽद्यैव स वासरः ॥४१३॥ ततो वनस्थसामग्र्या, लग्नवेला च साधिता । परिणीताऽवदन्नारी, राक्षसात् ते भयं प्रिय ! ॥४१४॥ स प्रोचे तस्य घाताय कोऽप्युपायोऽस्ति हे प्रिये ! ? । नार्या प्रोक्तं तटाके प्राग्, गत्वा स्नानं करोति सः ॥४१५|| पश्चादत्र समागत्य, देवार्चां कुरुते यदा । तदा स दैवतं खड्गं, पार्श्वे मुञ्चति हस्ततः ॥४१६|| प्रियोऽवादीत् करिष्येऽस्य, शिरश्छेदं ततोऽसिना । प्रियोचे राक्षसोऽभ्येति तावदन्यत्र गम्यताम् ॥४१७॥ एवं कृतेऽथ तत्रागात्, राक्षसोऽसौ मदोद्धतः । रे भक्ष्यं क्व गतं चैवमुक्त्वोपविष्ट आशु सः ॥ ४१८।। देवतार्च्चनवेलायां, प्रस्तावं प्राप्य सत्त्ववान् । स्थित्वा रक्षसपृष्ठौ द्राक्, कुमारः खड्गमग्रहीत् ॥४१९॥
[ ६५
5
10
15
20
25