________________
5
10
151
20
25
६४]
[ धर्मकल्पद्रुमः
अस्मिन्वर्षेऽपरं लग्नं, नास्त्येवोत्तममीदृशम् । श्रेष्ठी प्रोचे दिनैः स्तोकैः, कथं स्यातां गमागमौ ? ||३९४ ||
कर्तुं विवाहकार्याणि, शक्यते नैव विस्तरात् । सुतामादाय तत्राहं, ततो यामि कुटुम्बयुक् ॥ ३९५॥ विप्रं सन्तोष्य दानेन, सज्जीभूतः स श्रेष्ठिराट् । आरुरोह महापोतं, सकुटुम्बः सुतायुतः || ३९६।। दुर्दैवप्रेरितो वातः, प्रतिकूलस्तदाऽभवत् । भग्नं प्रवहणं तेन, सर्वमब्धौ ममज्ज च ॥ ३९७|| भग्ने पोते धनवती, फलकग्रहणात् तदा । तरन्ती सलिलं तीरं, प्राप्ता सप्तदिनैः क्रमात् ॥३९८|| स्वस्थीभूता वने क्वापि, पयः पीत्वा सरोवरे । सुप्ताहं राक्षसेनाथोत्पाट्य मुक्ताऽत्र भूतले ॥३९९ ॥ ततो रक्षोभयाद्भीतां, कम्पमानां च वीक्ष्य माम् । राक्षसः प्राह मा भैषीस्तव किञ्चिन्न कथ्यते ||४००|| मम क्षुधाकुलस्यापि त्वां दृष्ट्वा करुणाभवत् । यावद्भक्ष्यञ्च लप्स्येऽन्यत्तावत्त्वां भक्षयामि न ॥४०१ || इत्युक्त्वा क्वापि गत्वा च, त्वमानीतोऽधुनाऽमुना । विशेषात् तदहं जाता, दुःखिनी तव दुःखतः ॥४०२|| भवन्तं वीक्ष्य हे साधो ! चिन्ता मे बाधतेऽधिकम् । ईदृशं नररत्नं हा भक्षयिष्यति राक्षसः ॥ ४०३॥ दैवेनाहं कथं सृष्टा, पापिनी भाग्यवर्जिता । मत्कृते यत्कुटुम्बस्य समकालमभून्मृतिः ॥४०४॥ विदेशे पतिताऽहं च, विवाहोऽपि मम स्थितः । मद्द्द्द्ष्टौ राक्षसाद् दुष्टाद्विनाशस्ते भविष्यति ॥४०५॥ तस्माज्जानामि चित्तेऽहमात्मघातं करोम्यथ । वरं दुःखमदृष्ट्वैव, साध्यते मरणं हि यत् ॥४०६॥