________________
द्वितीयः पल्लवः] यतः- मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् ।
त्रिगुणाधिकवर्षाणामपि देया न कन्यका ॥३८२॥ काव्यम्- न्यायोपात्तधनाधिपो विनयवान् धीमान् कुलीनाग्रणी,
रूपैय॑त्कृतमन्मथो बलिरिवि त्यागेन भोगप्रियः । शिष्टाचारविचारकौशलकलापाण्डित्यधर्मप्रियः, प्रीत्याभाषणसम्मदामृतमयः प्राणेश्वरो दुर्लभः ॥३८३॥ वरार्थेऽथ महेभ्यानां, बहूनामङ्गजन्मनाम् । वीक्षिता जन्मपत्र्योऽपि, सदृश्येकाऽपि नाऽमिलत् ॥३८४॥ तातेनाचिन्ति किं कुर्बे, जन्मपत्र्यादियोगतः । आलोक्यालोक्य भग्नोऽहं, मत्सुतासदृशं वरम् ॥३८५।। अथ चन्द्रपुरात् कोऽपि, ज्योति:शास्त्रविदागतः । शृण्वन्त्यां मयि तातस्तं जगाद गणकं प्रति ॥३८६।। वृद्धा जाता सुतैषा मे, क्वानुरूपो वरो न हि । ज्योतिर्वित् ! त्वं जगद्ज्ञाता, सुतातुल्यं वरं वद ॥३८७।। जन्मपत्र्यनुमानेन, ग्रहमेलापकं शुभम् । दृष्टाथ वाडवः प्रोचे, शृणु त्वं श्रेष्ठिसत्तम ! ॥३८८॥ इभ्यश्चन्द्रपुरे जातः, श्रीपतिः श्रीमतीप्रियः । धर्मदत्तोऽस्ति तत्सूनुः, सुकृती सुभगाग्रणीः ॥३८९।। तदा हृष्टात्मना श्रेष्ठी, पुन: पप्रच्छ तद्गुणान् । विप्रः प्रोचे मया नैव, दृष्टस्तत्सदृशो भुवि ॥३९०।। विद्यावयोयशोभाग्यकृतज्ञत्वादितद्गुणाः । षोडशस्वर्णकोटीनां, भोक्ता यो वेश्यया सह ॥३९१।। विप्रवाक्यं निशम्यैवं, स श्रेष्ठी पुनरब्रवीत् । मत्पुत्री धर्मदत्ताय, दास्यामन्यत्र न क्वचित् ॥३९२।। लग्नं पश्य महाशुद्धं, शुभयोगसमन्वितम् । विप्रोऽवादीत् पञ्चदशदिनान्ते लग्नमुत्तमम् ॥३९३।।
25