________________
द्वितीयः पल्लवः]
[६१ मिष्टं नीरं पपौ तीरे, तरुच्छायां समाश्रितः । दुःखत उद्विजश्चिन्तां, विविधाञ्चाकरोदसौ ॥३५७॥ तदा निद्राकुलत्वेन, स सुप्तः पर्णस्रस्तरे । यावन्निद्रा समायाता, तावत्केनाप्यऽसौ हृतः ॥३५८॥ स बुद्धः प्रौढदेहञ्च, हर्तारं तं भयावहम् ।
राक्षसं वीक्ष्य नेत्रे द्वे, निमील्यैवमचिन्तयत् ॥३५९।। काव्यम्- छित्वा पाशमपास्य कूटरचनां भङ्क्त्वा लसद्वागुरां,
पर्यन्ताग्निशिखाकलापवसनान्निगर्त्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य धावन्मृगः, कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ? ॥३६०॥ 10 यदुपतेर्जगदेकमहीभुजो, रिपुसमूहतृणैकहविर्भुजः । मरणमस्य वने शरसम्भवं, विधिरहो बलवानिति मे मतिः ॥३६१॥ पुराऽहं पतितः कूटसङ्कटे द्यूतवेश्ययोः । ततो निःसृत्य वैदग्ध्याच्चटितः सागरे बलात् ॥३६२।। भग्ने पोतेऽम्बुधेः पाताद्यद्यहं निर्गतस्ततः । अधुना राक्षसे कष्टे, पतितः किं करोम्यहम् ? ॥३६३।। यद्भाव्यं तद्भवत्वेवं, धीरत्वं स दधौ हृदि । कस्मिन् स्थानेऽथ मुक्त्वा तं, जगाम क्वापि राक्षसः ॥३६४।। विज्ञाय मुक्तमात्मानं, यावदुद्घाट्य चक्षुषी । पश्येन्न राक्षसो दृष्टो, दृष्टैका तत्र बालिका ॥३६५।। ____ 20 वृक्षच्छायाश्रितां दिव्यरूपसौभाग्यशालिनीम् । वरवस्त्रादिशृङ्गारामेनां दृष्ट्वा सा विस्मितः ॥३६६।। दध्यौ च राक्षस: क्वागादेषा स्त्री किमु राक्षसी । कन्यारूपोऽथवा जातः, पलादश्चित्रहेतवे ॥३६७।। किं वेयं खेचरी नारी, सुरी वा व्यन्तरी किमु । नागलोकोद्भवा किं वा, किं वाऽसौ कापि मानवी ? ॥३६८॥
15
25