________________
5
10
15
20
25
[ धर्मकल्पद्रुमः
६०]
श्लोक :- उद्यमं साहसं धैर्यं बलं बुद्धिः पराक्रमः । षडेते यस्य विद्यन्ते तस्य देवोऽपि शङ्कते ॥ ३४६॥ गाथा- अत्थो जसो अ कित्ती, विज्जा विन्नाणयं पुरिसकारो । पाण्णं( पाएणं) पाविज्जई, पुरिसेहिं अन्नसम्मि ॥३४७॥ [ ] उद्यमं परमं मित्रमालस्यं परमो रिपुः । आलस्यं सर्वथा जित्वा, सर्वकार्यक्षमो भव ॥ ३४८ ॥ अतो रत्नाकरस्यैकवारं सेवां करोम्यहम् । स प्रियानुमतिं प्राप्य, यानपात्रमसज्जयत् ॥३४९॥ आपृच्छ्य स्वजनान् सर्वान्, पोतमारुह्य सद्दिने । कर्कोटद्वीपमुद्दिश्य, प्रतस्थे तद्दिशं प्रति ॥३५०॥ अन्येद्युर्गच्छतस्तस्य, प्रतिकूलेन वायुना । अकस्मात् पापकर्मत्वात् भग्नः पोतः क्षणेन सः ॥ ३५१ ॥ धर्मदत्तकरे किञ्चित् फलकञ्चटितं तदा । तदिष्टजनवत्तेन, दोर्भ्यामालिङ्गितं दृढम् ॥३५२॥ तरन्नीरं प्रियाशिक्षां, स्मरंस्तीरमवाप सः । रौरवं तटमम्भोधेः, पश्यन्नेवं बभाण च ॥ ३५३॥ यतः - स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः,
कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं फलं सकलमप्यमुतः पयोधेर्यद्दारुणैर्जलचरैर्न विदारितोऽहम् ॥३५४॥ एतस्मादमृतं सुरैः शतमखेनोच्चैःश्रवाः सद्गुणः, कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता । इत्यादिप्रसरच्चिरन्तनकथाभ्रान्त्या कृतोपासनै
रस्माभिर्न हि दृष्टमत्र जलधेः क्षाराम्बु मुक्त्वाऽपरम् ॥३५५॥ वनश्रेणीर्विलोकयन् । इत्युक्त्वा सोऽग्रतो गच्छन्, ददर्शैकं पयः पूर्णं, तटाकं चन्द्रबिम्बवत् ॥३५६॥