________________
द्वितीय: पल्लवः ]
विवेकेनाद्य भोक्तव्यमिति विस्तरकारणम् । घृतपूरभ्रमधरं, वारयामास सा न तम् ॥३३४|| सम्पूर्णकृत्यं सापत्त्यं, विशालस्थालधारिणम् । सस्पृहं घृतपूरार्थे, निषण्णं वीक्ष्य साहसत् ॥ ३३५॥ अन्नमप्यर्धपक्वं च, करवाणि कथं प्रिय ? | स्वादूनि घृतपूराणि, जघास दुहितापतिः ॥३३६॥ इति तद्वचनाज्जातास्तोकशोकः स कोपनः । पतन्तु दन्ता जामातुरष्टवर्षीयबालवत् ॥३३७|| वज्रं पततु तन्मूर्ध्नि, यथा गिरिवरे पुरा । विद्युत्पततु तन्मुण्डे, कांस्यपात्र इवाद्भुता ||३३८|| सदा रुष्टः सदा क्रूरः, सदा पूजां प्रयच्छति । कन्याराशिस्थितो नित्यं, जामाता दशमो ग्रहः ॥ ३३९॥ इति यावद्विमृशति, तावत् सा घृतदायिनी । गाढशब्दं च नर्दन्ती, शाकिनीवाऽऽगमद् गृहे ॥ ३४० ॥ रे रे विश्वस्तवधक, मायाविन् जनवञ्चक । पश्यतोहर वेगेन, चल त्वं राजमन्दिरे || ३४१॥ मामकीनं कुतोऽग्राहि, प्रमाणादधिकं घृतम् ? । इत्यर्धभुक्ते स तया, धृतो बाहौ मनस्यधात् ॥३४२॥ अन्यायोपार्जितं वित्तं, न यामयुगलस्थितम् । निपत्य पादयोस्तस्याः, सघृतं द्रविणं ददौ ॥ ३४३ ॥ इति अन्यायवित्तकथा ॥ $$ अतो न्यायेन योत्पत्तिर्वित्तस्याल्पाथवा घना ।
शतधा लक्षधा सा च, भाग्येन भवति प्रिय ! ॥ ३४४॥
अथोचे धर्मदत्तोऽपि त्वं सत्यं वदसि प्रिये ! | तथाप्यभाग्यभाग्ये हि, न ज्ञायेते विनोद्यमम् ॥३४५॥
१. सप्तम्येकवचनम् ।
[ ५९
5
10
15
20
25