________________
5
10
15
20
4]
यतः
उद्यमं कुर्व्वतां पुंसां, फलं भाग्यानुसारतः । समुद्रमथनाल्लेभे, हरिल्लक्ष्मीं हरो विषम् ॥३२२॥ यत् स्वल्पं न्यायधर्मेण प्राप्यते तद् घनं भवेत् । घनं त्वन्यायमार्गेण, तद्वित्तमचिराद् व्रजेत् ॥३२३॥ अन्यायोपार्जितं वित्तं, क्षणं नैवावतिष्ठति । अत्रोदाहरणं श्रेष्ठी, काशीवासी धनावहः || ३२४|| तथाहि - पुर्य्यां वाणारसीनाम्यां, कुशलः सर्व्वकर्मसु । धनाढ्यो घृतकश्रेष्ठी, वसति स्म धनावहः ॥ ३२५॥ अन्येद्युग्रमनारीभ्यः, प्राज्यमाज्यं धनावहः । अङ्करेखाविपर्यासात्, सपादं जगृहे शठः ॥३२६|| स दध्यौ चेतसि परमन्यायद्रविणं भृशम् । न तिष्ठति तदेतद्राग्, व्ययिष्ये वल्भनादिषु ॥३२७॥
गोधूमघृतखण्डाद्यमर्पयित्वाङ्गजन्मनः । प्रोक्तं स्वजननीपाश्र्वात्, घृतपूराणि कारय ॥३२८॥ सा वक्तनिपतल्लालं, घृतपूराणि हर्षिता । यावच्चकार मध्याह्ने, तावदागात् सुतापतिः ॥ ३२९॥ सहायसहितं सापि, बहुमानं सगौरवम् । भोजयामास सरसैर्घृतपूरैः पुराकृतैः ॥३३०॥
२
उक्तञ्च - तिया तिन्नि उ वल्लह, कलिकज्जलसिन्दूर ।
अन्न वि तिन्नि वि वल्लह दूधजमाईतूर ॥ ३३१॥ [ ] भुक्त्वा तस्मिन् गते ग्रामं, हट्टात् श्रेष्ठी समागतः । स्नानस्य देवतार्चाया, मनोरथमथाकरोत् ॥३३२॥
सा भ्रमं घृतपूराणां, रक्षन्ती प्रियमालपत् । मध्यन्दिनमतिक्रान्तं, मक्षु भुङ्क्ष्व बुभुक्षितः ||३३३||
१. भोजनादिषु । २. स्त्रियाः ।
[ धर्मकल्पद्रुमः