________________
[५७
द्वितीयः पल्लवः]
शत्रुपीडादिकं चेत्त्वं, व्यवसायं करोषि न । तत्ते कुतो राज्यवृद्धि ? द्वितीयोऽप्यगदन्नृपम् ॥३१०॥ अथवा स्थालनिक्षिप्तैर्नैवेद्यैर्मनसः प्रियैः । कवलव्यवसायात्तु , विना तृप्तिन जायते ॥३११॥ ततो हास्यरुषाक्रान्तो, नरेन्द्रो निजपूरुषैः । निर्नीरकूपे चिक्षेप, तावुभौ मानदुर्द्धरौ ॥३१२।। सुष्वाप राजिल इव, राजिलः कूपमध्यगः । अभितस्तत्र बभ्राम, रत्नोऽपि व्यवसायवान् ॥३१३।। मध्यन्दिने नृपोऽप्रैषीत् , सदयो मोदकाष्टकम् । ते जाग्रता जगृहिरे, रत्नेनावटवतिना ॥३१४।। प्रबोध्य तत्र रत्नोऽपि, राजिलञ्च वितर्कयन् । तेषामधू दयापूर्वं, ददौ मुदितमानसः ॥३१५।। अपराह्ने समाकृष्टौ, कूपाद्भूपेन जल्पितौ । प्रौढं शशंस भाग्याय, राजिलो रङ्गसङ्गतः ॥३१६।। देवाऽस्य भ्रमतोऽभूवन् , यावन्तो मोदकाः श्रमात् । प्रसुप्तेनापि तावन्तो, लेभिरे हेलया मया ॥३१७।। रत्नोऽब्रवीत् कृपापूर्वं, त्वं विनिद्रो मया कृतः । रे रे तुभ्यं मतिं दत्वा, भाग्येनाहं प्रबोधितः ॥३१८॥ भूपोऽपि मोदकन्यस्तामयाचन्मुद्रिकां तयोः । समर्थो राजिलः शीघ्रमार्पयत् तां स्मिताननः ॥३१९।। इति प्रत्यक्षदृष्टान्ताद् , बोधितौ तौ महीभुजा । मेनाते भाग्यसाफल्यं, तेनाते पुण्यमद्भुतम् ॥३२०॥
इति राजिलकथा ॥ ६६ पुनः कान्ता पतिं प्राह, यदि पुण्योदयो भवेत् ।
उपक्रमं विना तर्हि, सर्वं संपद्यते गृहे ॥३२१॥
१. राजा ।