________________
5
[धर्मकल्पद्रुमः यतः- इक्षुक्षेत्रं समुद्रा(द्र)श्च, जात्यपाषाण एव च ।
प्रसादो भूभृतां चैव, क्षणाद् नन्ति दरिद्रताम् ॥२९९॥ अथोक्तं प्रियया तस्य, किं समुद्रेण साम्प्रतम् ? ।
सर्वथा सर्वकार्येषु , भाग्यमेव प्रशस्यते ॥३००॥ काव्ये- पुण्यादेव समीहितार्थघटना नो पौरुषात् प्राणिनाम् ,
यद्भानोभ्रंमतोऽपि नाम्बरपथे स्यादष्टमः सैन्धवः । स्वस्थानात् पदमात्रमप्यचलतो विन्ध्यस्य चानेकशो, जायन्ते मधुपालिपालितयशःश्रीलम्भिनः कुम्भिनः ॥३०१॥ केषाञ्चिन्निजवेश्मनि स्थितवतामालस्यवश्यात्मनां, दृश्यन्ते फलिता लता इव फलैरामूलचूलं श्रियः । अब्धि लङ्घयतां खनिञ्च खनतां क्षोणीतलं प्रेक्ष( पश्य )तामन्येषां व्यवसायसाहसवतां तन्नास्ति यद्भुज्यते ॥३०२॥ यद्भविष्याधिको धीरैः, व्यवसायः प्रकीर्त्यते । तस्मादप्यधिको लोके, भाग्यवान् राजिलो यथा ॥३०३॥ स्यातां गान्धर्वनगरे, वणिजौ रत्न-राजिलौ । अहर्निशं तौ निष्कार्यो, विवदेते मदोद्धरौ ॥३०४।। मन्यते व्यवसायस्य, साफल्यं रत्नसंज्ञितः । राजिलो दीर्घदृक्कामं, भाग्यमेव प्रशंसति ॥३०५।। निषेध्यमानौ लोकेन, हठात् तौ न विरेमतुः । तावद्विदितवृत्तेन, पप्रच्छाते महीभुजा ॥३०६।। कुतो रे निष्फलं वादं, कुर्वीयाथामसौख्यदम् ? । यद्यस्य मनसा भाति, तन्निन्द्यमपि सुन्दरम् ॥३०७।। स्वान्ययोः क्वापि सौख्याय, विपरीताः कृताः क्रियाः । यथा स्याद् व्यासविश्रान्तिः, पूगक्रतुनतिर्यथा ॥३०८।। त्वज्ज्येष्ठा बान्धवाः सप्त, बभूवुः खण्डमण्डनाः ।
भाग्यात्त्वमेव राजाभूदं किं ? राजिलोऽब्रवीत् ॥३०९।। १. भाग्यं ।
20