________________
10
द्वितीयः पल्लवः]
गाम्भीर्यं धैर्यमौदार्य, चतुरत्वं विलोभता । सर्व्वसहत्वं माधुर्यमार्जवं सुस्त्रियां गुणाः ॥२८५॥ आचमनं तया दत्त्वा, मुक्तञ्च वरमासनम् । उपविष्टे प्रिये गेहस्वरूपं कथितं च तत् ॥२८६।। सखेदं दिग्मूढमिव, प्रेक्ष्य कान्तं तु साब्रवीत् । प्राणेश ! त्वं यदा दक्षस्तदा किञ्चिद गतं न हि ॥२८७॥ यदा त्वं सावधानत्वात् सर्वचिन्तां करिष्यसि । भविष्यति तदा भव्यं, मा कार्षीः खेदमात्मनः ॥२८८।। तदा प्राणप्रियोऽप्याह, प्रिये खेदः कथं न हि ? ।
निर्धना नरनार्यो हि शवस्य सदृशा मताः ॥२८९॥ यतः- यस्यार्थास्तस्य मित्राणि, यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके, यस्यार्थास्तस्य जीवितम् ॥२९०॥ गाथा- जाई विज्जा रूवं, तिन्नि वि निवडन्तु कन्दरे विवरे ।
अत्थु च्चिय परिवड्डउ, जेण गुणा पायडा हुन्ति ॥२९१॥ [ ] पत्नी प्रोवाच वक्ष्येऽहमुपायं ते धनार्जने । तावत्त्वं स्वस्थचित्तेन, प्रथमं भोजनं कुरु ॥२९२।। स्नात्वा देवार्चनं कृत्वा, कृत्वा च भोजनं ततः । चिन्तितं ते भार्या किं, निधानं दर्शयिष्यति ? ॥२९३।। क्षणं विश्रम्य सा पृष्टोपायः कः? कथ्यतां प्रिये ! । तयोक्तं लक्षमूल्यानि, सन्त्यङ्गाभरणानि मे ॥२९४।। तेषां मध्यात् पञ्चशतदीनारमूल्यकुण्डलम् । विक्रीय तेन द्रव्येण, व्यवसायं कुरु प्रिय ! ॥२९५।। ततोऽसौ तेन वित्तेन, व्यवसायं व्यचिन्तयत् । पूर्वं कोटीश्वरस्तेन, चित्ते नायाति तद्धनम् ॥२९६।। ततोऽवादीत् प्रिये ! पूर्वमहं कोटीश्वरोऽभवम् । अत्राल्पव्यवसायांश्च, कुर्वन् लज्जामि साम्प्रतम् ॥२९७।। तेनाहं यानपात्रेण, किञ्चिल्लात्वा पयोनिधौ । कस्मिन द्वीपे गमिष्यामि, नो द्रव्यं नीरधि विना ॥२९८॥
15
25