________________
[धर्मकल्पद्रुमः तद्गृहे प्रेषिता दासी, पश्चादागाद्धनं विना । गृहे निर्धनतां ज्ञात्वाऽक्कया निष्कासितोऽथ सः ॥२७२।। निर्द्रव्यो नार्घति क्वापि, गृहे बाह्येऽपि सर्वथा । गोविन्दो ग्राममध्ये च, रुद्रोऽरण्ये तु सर्वदा ॥२७३॥ साकारोऽपि सविद्योऽपि, निर्द्रव्यः क्वापि नार्घति । व्यक्ताक्षरस्तु वृत्तोऽपि, द्रम्मः कूटो विवर्त्यते ॥२७४॥ दासः सर्वोऽपि वित्तस्य, सेवन्ते न जनं जनाः । पक्षिणोपि रथाङ्गाद्याः, सर: शुष्कं सरन्त किम् ? ॥२७५॥ सस्नेहो धर्मदत्तोऽपि, चिरकालोपसेवितः ।
एकवारमनायाते, द्रव्ये निष्कासितस्तया ॥२७६।। यतः- सद्भावो नास्ति वेश्यानां, स्थिरता नास्ति सम्पदाम् ।
विवेको नास्ति मूर्खाणां, विनाशो नास्ति कर्मणाम् ॥२७७॥ विरक्ता प्राणसन्देहं, धनहानि पराभवम् ।
करोति सर्वमप्येवं, वेश्या दुर्जनवन्नृणाम् ॥२७८॥ 15 श्लोकः- अभ्रच्छाया तृणादग्निः, खले प्रीतिः स्थले जलम् ।
वेश्यारागः कुमित्रञ्च, षडेते बुबुदोपमाः ॥२७९॥ इत्यादि चिन्तयन्धर्मदत्तो निजगृहेऽगमत् । अपश्यद् गृहचेष्टाञ्च, दुःस्थावस्थासमागताम् ॥२८०॥ प्रतोली पतिता यत्र, भित्तयः सन्ति जर्जरा । कपाटानि च भग्नान्यावासान् सोऽपश्यदीदृशान् ॥२८१॥ आत्मानं व्यसनासक्तं, निन्दन् गेहान्तरे गतः । कर्त्तयन्तीं प्रियां दृष्ट्वा, मुमोचाश्रूणि दुःख्यसौ ॥२८२॥ दृष्ट्वा तं पुरुषं साप्याकारेङ्गितगुणैर्धवम् ।
उपलक्ष्य पति स्वीयं, प्रतिपत्तिमथाकरोत् ।।२८३।। 25 यतः- प्रजानां दैवतं राजा, पितरौ देवता सताम् ।
सुशिष्याणां गुरुर्देवो, नारीणां दैवतं पतिः ॥२८४॥