________________
[५३
द्वितीयः पल्लवः]
आवर्जनाऽस्य यत्नेन, कर्त्तव्या गणिके ! त्वया । तवासौ कल्पशाखीव, वाञ्छितं पूरयिष्यति ॥२५९॥ तत्र स्थितस्य तस्याथ, जनन्यप्रे(नी प्रै)षयद् घनम् । अमानं द्रविणं नित्यं, स्वेच्छया विलसत्यसौ ॥२६०।। वेश्यालुब्धस्य तौ मातापितरौ तस्य विस्मृतौ । निःशङ्ख रममाणस्य, सञ्जातं वर्षसप्तकम् ॥२६१।। अन्यदा श्रेष्ठिना गेहे सुतस्याकारणं कृतम् । नायात्यसौ कथमपि, जातौ तौ दुःखितौ तदा ॥२६२॥ श्रेष्ठ्यूचे देवतावाणी, स्यात् कल्पान्तेऽपि नान्यथा । यो मया शङ्कितो धर्मस्तत्कर्म समुपागतम् ॥२६३।। आकार्याकार्य तौ क्षुणावूचतुर्दम्पती मिथः ।
यतोऽयं स्वकृतो दोषः, परं कस्य च कथ्यते ॥२६४॥ यतः- आत्मापराधवृक्षस्य, फलान्येतानि देहिनाम् ।
दारिद्य्रोगदुःखानि, बन्धनव्यसनानि च ॥२६५॥ बाढं वेश्यारते पुत्रे, श्रीपतिः श्रीमतीयुतः । शुशोच स्वकृतं दोषं, यत्सुतो द्यूतकृत् कृतः ॥२६६।। पूर्वमुड्डाप्यते हस्ताद्यथा पश्चात्तदिष्यते । दत्वा प्राग् द्यूतकारेभ्यः, पुत्र आकार्यते तथा ॥२६७।। अथापुत्रमिवात्मानं, मन्वानौ तौ हि दम्पती । मुक्त्वा चिन्तां तदा जाती, धर्मध्यानपरायणौ ॥२६८॥ विपन्नौ तौ शुभध्यानाज्जातौ देवौ महधिकौ । मातापित्रोम॒तिं श्रुत्वा, गेहे नागात् स नन्दनः ॥२६९।। अप्रेष्यद्ध(प्रैषयच्च ध)नं तस्य, भार्याऽथो भर्तृयाचितम् ।
क्रमाद्रव्ये गते जाता, सा कर्त्तनपरा सती ॥२७०।। यथा गाथा-कन्तविहूणी कामिनी, केहनइ सरणइ जाइ ।
रहिटीडइ पूणी करी, पेट भरी जइमाइ ॥२७१॥
15