________________
५२]
10
[धर्मकल्पद्रुमः कथं वल्लभपुत्रस्य, कुशिक्षा दीयते स्वयम् ? । वरं गतो मृतश्चापि, न वरं द्यूतसङ्गतिः ॥२४७॥ श्रेष्ठिना वारिताप्येवं, नातिष्ठद्वनिता तदा । स्त्री भूपो याचको बालो, न मुञ्चन्ति कदाग्रहम् ॥२४८॥ पुनः पुनः प्रकथनात् , श्रेष्ठी मेने प्रियावचः ।
शते प्रल(रू)पिते शब्दे, सती भग्नातिसत्त्वतः ? ॥२४९।। गाहा- जहा जालं तु मीणाणं, कुरङ्गाणं च वागुरा ।
पङ्खीणं पासओ बन्धो, तहा नारी नराण य ॥२५०॥[ ] जे गरुआ गम्भीरथिर, मोटुं जाह मट्ट । महिला ते वि भमाडिया, जिम करि धरीय घरट्ट ॥२५१॥ आहूय कितवान् दक्षानर्पितः श्रेष्ठिना सुतः । इभ्यपुत्रं स्वहस्ते तं, प्राप्य ते हर्षिता धनम् ॥२५२॥ तद्दिने जलकेलिञ्चाम्बुकेलिं वनखेलनम् । सहैव धर्मदत्तेन, चक्रिरे द्यूतकारकाः ॥२५३।। जीवः स्वभावतो नीचसङ्गतिं कुरुते भृशम् । किं पुनः प्रेरितः पित्रा ?, गडौची निम्बमाश्रिता ॥२५४।। शिक्षा सा पैतृकी पूर्वा, पुण्यमार्गप्रवर्तिनी। त्यक्ता तेन तथा यद्वत् , मक्षिकाभिः सुचन्दनम् ॥२५५।। कलास्तस्य गताः शास्त्रं, विस्मृतं स्वल्पकालतः । उच्छृङ्खलो महान् जातो, निष्पन्नस्तस्करो विटः ॥२५६।। यथा दुग्धं विनष्टं स्याद्यथा कुथितकाञ्जिकम् । तथोत्तमकुलोत्पन्नो, विनष्टो दुस्सहो भवेत् ॥२५७॥ अथ कामपताकाया, वेश्याया मन्दिरे स च । मोहार्थं कितवैर्नीत, इति तस्याश्च भाषितम् ॥२५८।।
15
१. भाषायां 'गळो' ।