________________
द्वितीयः पल्लवः]
[५१ वने क्वापि द्रुशाखायां, नीडे जातं शुकद्वयम् । तत्रैको जगृहे भिल्लैर्गृहीतस्तापसैः परः ॥२३५॥ किराततापसस्थाने, शृणुतस्तद्वचांसि तौ । कोऽपि राजा हयाकृष्टः, समागाद्भिल्लसन्निधौ ॥२३६।। लक्षं याति व्रजेत् कोटिरिति भिल्लशुकोऽवदत् । तच्छ्रुत्वा धाविता भिल्लाः, सर्वाङ्गे शोधितो नृपः ॥२३७।। नैव दृष्टं परं किञ्चिदश्वं लात्वा समागताः । पुनरेतत् शुकोऽवादीद् गता भिल्ला नृपान्तिके ॥२३८॥ भूपं प्रत्यूचुरस्माकं, सत्यं ज्ञानी शुको वदेत् । गुप्तं किमस्ति ते पार्वे, सत्यं जल्पाभयं तव ॥२३९।। राजाऽऽह सोऽब्रवील्लक्षं, कोटिरायाति मद्गृहे । इत्युक्ते तुरगं दत्वा, भिल्लैर्मुक्तो नराधिपः ॥२४०।। अग्रे तु मुनिकीरेण, प्रोक्तं यात्यतिथिर्महान् । तापसैर्नृपमानीय, विहिताऽतिथिसत्क्रिया ॥२४१॥ राज्ञा कीरं करे कृत्वा, पृष्टमेकेन ग्राहितः ।
सत्कारितोऽहमेकेन, शुकयुग्मे किमन्तरम् ? ॥२४२।। शुक उवाच-माताप्येका पिताप्येको, मम तस्य च पक्षिणः ।
अहं मुनिभिरानीतः, स चानीतो गवाशिभिः ॥२४३॥ गवाशनानां स गिरः शृणोति, अहञ्च राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवतापि दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥२४४॥ 20
इति शुकयुग्मकथानकम् ॥ सन्तोऽपि खलसंसर्गात् , जायन्ते दोषभाजनम् । अतः कान्ते ? कुसंसर्गादहितो वार्यते यतः (ऽपि हि वार्यते) ॥२४५॥ कुसंसर्गात् कुलीनानां, भवेदभ्युदयः कुतः ? । कदली नन्दति कियबदरीतरुसन्निधौ ॥२४६॥
25