________________
५०]
10
[धर्मकल्पद्रुमः ६६ श्रीमती प्राह हे नाथ ! यथा ते राजपुत्रकाः ।
पठिताः कथिता अज्ञास्तथायां तव नन्दनः ॥२२३॥ लेखशाला पुण्यशाला, कामशाला तृतीयका । पूर्वमुक्ता हि हे नाथ ! वर्गत्रितयसाधने ॥२२४।। ततोऽयं धर्मदत्तोऽपि, कामार्थो नैव सेवते । तथा कुरु यथा नाथ ! दक्षो भवति नन्दनः ॥२२५॥ अथोचे श्रीपतिः पत्नी, कोऽप्युपायोऽस्ति कामिनि ! । कृते यस्मिन्नयं पुत्रः, सर्वत्र कुशलो भवेत् ॥२२६।। श्रेष्ठिनी प्राह पुत्रोऽयं, द्यूतकाराय दीयते । दक्षत्वं दिवसैः स्तोकैः, कुर्वन्ति कितवा नृणाम् ।।२२७।। इत्थं श्रुत्वाऽब्रवीत् श्रेष्ठी, का कुबुद्धिरियं तव !
उत्पन्ना विपरीता किं, मतिः सवार्थनाशिनी ? ॥२२८।। यतः- रुष्टो देवोऽपि किं कस्य, चपेटां दातुमुद्यतः ? ।
किन्तु तां दुर्मतिं दत्ते, यया रुलति रङ्कवत् ॥२२९॥ द्यूतं वेश्यानुरागश्च, धातुवादश्च विभ्रमः । योगिसेवा सदा रुष्टे, दैवेऽमी स्युः शरीरिणाम् ॥२३०॥ कोपीनं वसनं कदन्नमशनं शय्या धरा पांसुला, जल्पोऽश्लीलगिर: कुटुम्बकजनो वेश्या सहाया विटाः । व्यापाराः परवञ्चनानि सुहृदश्चौरा महान्तो द्विषः, प्रायः सैष दुरोदरव्यसनिनः संसारवासक्रमः ॥२३१॥ द्यूतं सर्वापदां धाम, द्यूतं दीव्यन्ति दुर्धियः । द्यूतेन कुलमालिन्यं, द्यूताय श्लाघ्यतेऽधमः ॥२३२॥ हे प्रिये ! शोभना नैव, बुद्धिरेषा यतः सुतः । कुसंसर्गात् कुतो दक्षो ?, जीवितं किं विषाद्भवेत् ? ॥२३३॥ कुसङ्गात् किल दोषाः स्युः, सत्सङ्गात् सुगुणाः पुनः । न श्रुता किं पुरा वार्ता, वनस्थशुकयोर्द्वयोः ॥२३४।।
20
25