________________
[४९
द्वितीयः पल्लवः]
वाक्यं नैव शृणोति बान्धवजनः पत्नी न शुश्रूषते, धिक् कष्टं जरयाऽभिभूतमनुजं पुत्रोऽप्यवज्ञायते ॥२१०॥ वदनं दशनविहीनं, वाचो न परिस्फुटा गता शक्तिः । विगता चेन्द्रियवृत्तिः, पुनरपि बाल्यं कृतं जरया ॥२११॥ वृद्धाया मक्षिकादंशोपद्रवस्य निवारणे । नीरपानादिशुश्रूषाकृते मुक्तश्चतुर्थकः ॥२१२।। वृद्धायामथ सुप्तायां, मक्षिका मुखसंस्थिताः । उड्डापयन्नुवाचासौ, रे युष्मान् वारयाम्यहम् ॥२१३।। युष्माभिर्माक्षिका नात्रागन्तव्यं कथ्यते घनम् । विकलास्ता न जानन्ति, पुनरागत्य संस्थिताः ॥२१४॥ उड्डाप्य पुनरूचेऽसौ, वारयामि मुहुर्मुहुः । सुशिक्षामथ दास्यामि, मम दोषो न दीयते ॥२१५।। इत्युक्त्वा मुशलं स्थलमुत्पाट्य मक्षिकामिषात् । विमुक्तं तेन वृद्धाङ्गे, तद्घाताज्जरती मृता ॥२१६।। श्रेष्ठी निशम्य निर्घातमागाच्छीघ्रमुवाच च । किं कृतं रे महादुष्ट ! जननी मारिता मम ॥२१७।। सोप्याख्यत् किं मया चक्रे ?, मक्षिका वारिताः पुनः । न गच्छन्ति तदा शिक्षा, दत्ता चान्यत्कृतं न हि ॥२१८।। तस्या विधाय संस्कारं, स श्रेष्ठी मातृशोकतः । रुदन्नस्ति गहे यावत , तावत्तेऽप्यागतास्त्रयः ॥२१९।। गद्गदाक्षरमूचाते, रथमृत्युमुभौ नरौ । एकेनोक्तं प्रविष्टश्च, तस्कर: कूटकान्तरे ।।२२०।। चतुर्णामपि चातुर्य, ज्ञात्वैतत् श्रेष्ठिना ततः । दत्वा च भोजनं किञ्चिद् , गृहान्निष्कास्य मोचिताः ॥२२१।। ज्ञात्वा पठितमूर्खाणां, स्वरूपं स्वचराननात् । आकार्य भूभुजा पुत्रा, व्यवहारविदः कृताः ॥२२२।।
इति अव्यवहारज्ञकथा ॥
25