________________
४]
[धर्मकल्पद्रुमः त्रयोऽपि मिलितास्तत्र, बहिरागत्य नीरतः ।
मिथो जल्पन्ति नो नद्या, विश्वासः क्रियते बुधैः ॥१९९।। यतः- नदीनाञ्च नाखीनाञ्च, शृङ्गिणां शस्त्रपाणिनाम् ।
विश्वासो नैव कर्त्तव्यः, स्त्रीषु राजकुलेषु च ॥२००॥ इति मत्वा तदा मुग्धा, धूर्तत्वरहिता मिथः । गणयन्तो विनात्मानं, सर्वान् संभालयन्ति ते ॥२०१॥ मिथो वदन्त्यहो एको, जनः किं नोऽत्र दृश्यते । वाहिन्या भक्षितो भ्राता, रुदन्तीति मुहुर्मुहुः ॥२०२।। भूयोऽपि गणयन्नेको, नात्मानं गणयेज्जङः । इत्थं कृत्वाऽरुदन्नुच्चैर्गोपाला मिलितास्तदा ॥२०३।। कथं रुदिथ तैरुक्तं, ? किं गतं ? केन पीडिताः? । तेप्याहुर्न गतं किञ्चिदेको भ्राता विलोक्यते ॥२०४।। यूयं कति स्थ तैः पृष्टं, ? मुग्धैरुक्तं वयं त्रयः । गोपैरुक्तं त्रयः स्थूला, दृश्यन्ते(ध्वे) रुद्यते कथम् ? ॥२०५।। पतित्वा पादयोस्तेषां, कुमारा ऊचिरे त्रयः । यूयं दर्शयतास्माकं, तृतीयं हे नरोत्तमाः ! ॥२०६।। स्थापयित्वा त्रिकं श्रेण्यां, गणयित्वा च पाणिना । गोपालैर्दशितास्तेषां, ते त्रयोऽपि सहोदराः ॥२०७।। ततो जाता सहर्षास्ते, निर्गतास्तटिनीतटात् । यावत् सोमगृहे यान्ति, तावत्तुर्यकृतं श्रृणु ॥२०८।। सोमश्रेष्ठिगृहे मातामही वृद्धाऽस्त्यचेतना ।
श्लेष्मलालादिभिर्व्याप्ता, जराकष्टेन पीडिता ॥२०९॥ यतः काव्यम्
गात्रं संकुचितं गतिविगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव हसते वक्त्रञ्च लालायते ।
25
१. नखिनां च नदीनां च, इति पाठः साधुः ।