________________
[४७
द्वितीयः पल्लवः]
भ्रमन्तस्तत्र दीनास्या, वराकास्ते बुभुक्षिताः । दिनस्य पश्चिमे यामे, सोमश्रेष्ठ्यापणे गताः ॥१८६।। प्रश्नपर्वं गहे नीत्वा. दत्वा वैता(का)लिकं ततः । प्रभाते श्रेष्ठिना तेषां, कार्यं दत्तं पृथक् पृथक् ॥१८७।। एकस्याज्यभृतः कूटो, विक्रयार्थं समर्पितः । मार्गे भोः तस्काराः सन्ति, गन्तव्यं सावधानतः ॥१८८॥ एवं शिक्षा प्रदत्त्वाऽसौ, चालितो वेगतोऽगमत् । अर्धमार्गे महारण्ये, कूटमुत्तार्य सोऽब्रवीत् ॥१८९।। भो अत्र कोऽपि चौरोऽस्ति, स प्रकटीभवत्विह । उक्त्वैवं कूटसमुद्घाट्य, यावदालोकयत् स्वयम् ॥१९०।। प्रतिरूपमाज्यमध्ये, दृष्ट्वा चित्ते चमत्कृतः । श्रेष्ठिना कथितं सत्यं, प्रत्यक्षश्चौर ईक्ष्यते ॥१९१॥ दास्यामि साम्प्रतं शिक्षामेवमुक्त्वाऽक्षिपत् क्षितौ । कूटकं तमधोवक्त्रं, गतं सर्पिः सतस्करम् ॥१९२।। चिन्तितं तेन यात्वाज्यं, कृतं रम्यं मयाधुना । मृतः पुत्रः परं वध्वा, लट्सटटो निवारितः ॥१९३।। अथ कूटं करे कृत्वा, स पश्चाद्वलितो रयात् । रथस्थौ भ्रातरौ चान्यौ, द्वौ काष्ठाय वने गतौ ॥१९४।। मार्गे रथस्य चित्कारशब्दं श्रुत्वेत्यवोचताम् । रोदित्येष रथः कस्मात् , कश्चिद्रोगो विभाव्यते ॥१९५।। मुक्त्वा रथं समुत्तीर्णौ, तौ द्वौ यावदपश्यताम् । तावन्न श्रूयते शब्दो, मृतोऽसौ मौनमाश्रितः ॥१९६।। एवं विचिन्त्य संस्कार, विधाय शकटस्य तौ ।। स्नानार्थं तटिनीतीरे, गत्वा स्नानं च चक्रतुः ॥१९७।। अथाऽस्मिन् समये तत्र, बान्धवो घृतविक्रयी । तषार्लो जलपानार्थमागतो तटिनीतटे ॥१९८॥
15
25