________________
[धर्मकल्पद्रुमः
रथ एको महाजीर्णो, वृषभद्वयसंयुतः । प्रधानवचसा राज्ञा, कुमाराणां समपितः ॥१७३॥ तं रथं ते समारुह्य, चेलुरेकदिशं प्रति । एकस्मिन्नगरासन्ने, कानने च समागताः ॥१७४॥ भोजनावसरे तत्राप्येक: पाकाय संस्थितः । एको जगाम शाकार्थमेको घृतकृते गतः ॥१७५।। एको गतो बलीवचारणाय कुमारकः । पृथक् पृथक् क्रियां कर्तुमेवं सर्वे समुद्यताः ॥१७६।। जातः कलकलः शब्दः, पाकभाण्डान्तरे तदा । तेनाऽचिन्त्यस्य शब्दस्य, निष्पत्तिर्नास्ति लक्षणे ॥१७७|| मिथ्याशब्दं वदत्येतदस्य शिक्षां ददाम्यहम् । ततो लकुटमुत्पाट्य, प्रपहारं भाजनेऽमुचत् ॥१७८॥ भग्नं भाण्डमभून्मौनं, लग्ना शिक्षाऽस्य सत्यतः । इत्युदित्वा सुखं सुप्तो, निश्चिन्तो जडधीनरः ॥१७९॥ वातश्लेष्मादिकारीणि, त्यक्त्वान्यव्यञ्जनान्यथ । सर्वरोगहरं निम्बं, लात्वा द्वितीय आगतः ॥१८०।। तृतीयो घृतमादाय, गच्छन्नेवमचिन्तयत् । घृताधारेऽत्र किं पात्रं, ? पात्राधारे नु किं घृतम् ? ॥१८१॥ परीक्षार्थमधः पात्रं, कृतं यावद्गतं घृतम् । घृतं यातु परं भग्नः, सन्देह इति सोऽब्रवीत् ॥१८२॥ वृषौ हृतौ च चौरेण, पश्यन्नपि चतुर्थकः । तरुच्छायाश्रितो मूर्यो, लग्नभावं व्यलोकयत् ॥१८३।। स्थिरलग्ने स्थिरांशे च, स्थिरे(रो) भवति चन्द्रमाः । इति योगे समायाते, स्वयमायास्यतो वृषौ ॥१८४।। इति ज्ञात्वा बलीवईवालनार्थं स नोत्थितः । मिलित्वा तेऽथ चत्वारः, पुरमध्ये समागताः ॥१८५।।