________________
[४५
द्वितीयः पल्लवः]
अन्योऽन्यं ते च पृच्छन्ति, कोऽयं पञ्चमबान्धवः ? ।
खरं शास्त्रप्रमाणेन, भ्रातृबुद्ध्या स्पृशन्ति ते ॥१६१॥ यत:- • आतुरे व्यसनप्राप्ते, दुर्भिक्षे शत्रुविग्रहे।
राजद्वारे स्मशाने च, यस्तिष्ठति स बान्धवः ॥१६२॥ इति मत्वा खरं लात्वा, पुनरप्यग्रतोऽगमन् । वेगाद् गच्छन्तमुष्टं चाऽपश्यन्नेकं कुमारकाः ॥१६३।। पुनः पृच्छन्ति भो भ्रातः ! कोऽयं गच्छति वेगतः । परः प्राह न जानीथ, धर्मस्त्वरितगाम्ययम् ॥१६४।। चलं चित्तं चलं वित्तं, चलं यौवनमावयोः । प्रसारय करं पात्रे, धर्मस्य त्वरिता गतिः ॥१६५॥ स्थैर्यं सर्वेषु कार्येषु , शंसन्ति नयपण्डिताः । बह्वन्तराययुक्तस्य, धर्मस्य त्वरिता गतिः ॥१६६॥ सर्वे वदन्ति हुं ज्ञातं, धर्मस्त्वरितगाम्ययम् । इत्युक्त्वा कन्धरायां ते, गृहीत्वा चोष्ट्रमूचिरे ॥१६७।। धर्म त्वं भूरिभाग्येन, प्राप्त इष्टञ्च दीयते । उक्त्वैवमौष्ट्रग्रीवायां, रासभं ते बबन्धिरे ॥१६८॥ सुकुले योजयेत् कन्यां, पुत्रे विद्यां नियोजयेत् । व्यसने योजयेत् शत्रुमिष्टं धर्मे नियोजयेत् ॥१६९॥ यन्त्रितौ रासभोष्ट्रौ ते, गृहीत्वा चलिताः पथि । तत्कौतुकं जनाः प्रेक्ष्य, जल्पन्तीति परस्परम् ॥१७०।। निर्द्रव्यं प्रेक्षणं लोका, एत्य पश्यत पश्यत । दक्षत्वं राजपुत्राणां, पठितानां हि दृश्यते ॥१७१।। इति हास्यास्पदं जातास्ततो राज्ञा निराकृताः । नागन्तव्यमरे मूर्खा ! युष्माभिर्नगरे मम ॥१७२॥
१. एतत् इति वा ।