________________
४४]
[धर्मकल्पद्रुमः व्याकरणं प्रमाणञ्च, ज्योतिषं वैद्यकं तथा । पाठयित्वा पण्डितेन, ते भूपस्य समर्पिताः ॥१४८।। तदा भूपतिना विप्रो, द्रव्यैः सन्तोष्य वालितः । पुत्राः संवाहिताः पित्रा, सर्वे विंशतिवार्षिकाः ॥१४९॥ स्वसमीपे निविष्टास्ते, पृष्टा भूपेन किञ्चन । उत्तरं दिव्यभाषाभिः, कुमाराः कोविदा ददुः ॥१५०॥ प्रधानं प्राह भूपोऽथ, कीदृशा नन्दना बुधाः । एते पठितमूर्खा हि, प्रधानोऽप्यब्रवीदिति ॥१५१॥ कथं मूर्खा नृपोऽप्यूचे ?, भूयोऽपि सचिवोऽब्रवीत् । लोकाचारं न जानन्ति, शुकवत् पठिता अमी ॥१५२।। परीक्षार्थं ततस्तेषां, पुत्रयुक्तो नृपो गृहे । बहुमानात् प्रधानेन, भोजनार्थं निमन्त्रितः ॥१५३।। पक्वान्नं पञ्चधा मुक्तं, मुक्ता फलहुलिस्तथा । कुमाराः खज्जकं वीक्ष्य, प्रजल्पन्ति परस्परम् ॥१५४॥ किमिदं हि बहुच्छिद्रं, चतुष्कोणं भयावहम् । नैव किञ्चिद्वयं विद्मो, यदत्रैतत् किमुच्यते ॥१५५।। इत्युक्त्वा ते समुत्थाय, प्रोचुरुच्चैरिदं वचः । यत्र च्छिद्रं किमप्यस्ति, नात्र स्थेयं बुधैः क्षणम् ॥१५६।। छिद्रेऽनर्था भवन्त्युच्चस्तत्त्याज्यं स्थानकं ततः । चलितास्तेऽपि चत्वारस्त्यक्त्वा भोजनभाजनम् ॥१५७।। ज्ञातं तच्चेष्टितं राज्ञा, मन्त्रीशकृतसंज्ञया । लोकस्थितिं न जानन्ति, ह्येते वेदज्ञवाडवाः ॥१५८।। एषामाचरणं गत्वा, विलोक्य नष्टचर्यया । इत्युक्त्वा मन्त्रिणा तेन, तत्पृष्ठे प्रहितो नरः ॥१५९।। यादवग्रे गता राजपुत्रास्तावत् खरः पुनः । राजद्वारे स्थितो दृष्टो, रङ्गेण परितः स्फुरन् ॥१६०।।