________________
द्वितीय: पल्लवः ]
यथैकमार्गवर्त्येव, स बभूव तुरङ्गमः ।
तथाऽसौ धर्मदत्तोऽपि, शास्त्रैकरसिकोऽभवत् ॥१३६॥ अन्येद्युः श्रेष्ठिनी प्राह, भर्तारं श्रीपतिं प्रति । सुतोऽयं सर्वशास्त्रज्ञो, दृश्यते मूर्खवद्भृशम् ॥१३७॥
काव्यम्- काव्यङ्करोतु परिजल्पतु संस्कृतं वा,
सर्वाः कलाः समधिगच्छतु वाच्यमानाः । लोकस्थितिं यदि न वेत्ति यथानुरूपां सर्व्वस्य मूर्खनिकरस्य स चक्रवर्ती ॥१३८॥ लोकमार्गं नरो यावन्नैव जानाति कञ्चन । शृङ्गपुच्छपरिभ्रष्टः, स ध्रुवं पशुरेव हि ॥१३९॥ यथा वेदचतुर्वेत्ताप्यन्यशास्त्रश्रमं विना । विप्रः पशुसमस्तद्वद्, व्यवहारं विना नरः ॥१४०॥ श्लोकः- अपठाः पण्डिताः केचित् केचित् पठितपण्डिताः ।
अपठा मूर्खकाः केचित् केचित् पठितमूर्खकाः ॥ १४१ ॥ नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्पतीः । सरलास्तत्र च्छिद्यन्ते, कुब्जास्तिष्ठन्ति पादपाः ॥१४२॥ नातिमौग्ध्यं न काठिन्यं, नात्युच्चं नातिनीचकम् । एकान्तं किन्तु नो रम्यं सर्व्वं समतया शुभम् ॥१४३॥ विद्याभिरनवद्याभिरपि कार्यं न सिध्यति ।
,
व्यवहारज्ञता नो चेच्चत्वारोऽत्र निदर्शनम् ॥१४४॥ यथा चन्द्रपुरे पूर्वं, बभूव चन्द्रजिन्नृपः । राज्ञी चन्द्रानना तस्य, मन्त्रीशो बुद्धिसागरः ॥ १४५॥ राज्ञोऽग्रे कथितं केन, विद्वानेव नरो वरः । मन्त्रिणोक्तं बुधो मूर्खो, व्यवहारं न वेत्ति यः ॥१४६॥ तत्परीक्षाकृते राज्ञा, चत्वारो राजपुत्रकाः । सुरूपाः सुभगाः सौम्याः पाठिता भूमिमन्दिरे ॥ १४७॥
[ ४३
5
10
15
20
25