________________
४२]
[धर्मकल्पद्रुमः यत:- विद्यादम्भः क्षणस्थायी, दानदम्भो दिनत्रयम् ।
रसदम्भस्तु षण्मासान् , धर्मदम्भस्तु दुस्तरः ॥१२४॥ सज्जनेनापि किं तेन, यः शङ्खसमलक्षणः ? ।
धवलो बहिरत्यन्तमन्तस्तु कुटिलस्थितिः ॥१२५॥ 5 काव्यम्- कोऽर्थान् प्राप्य न गवितो ? विषयिणः कस्यापदोऽस्तङ्गताः ?
स्त्रीभिः कस्य न खण्डितं भुवि मनः ? को नाम राज्ञां प्रियः ? । कः कालस्य न गोचरान्तरगतः ? कोऽर्थी गतो गौरवम् ?, को वा दुजनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥१२६॥ अन्यदा तस्य दत्तस्य, श्राद्धस्याह्वानहेतवे । विवाहावसरे मित्रं, परग्रामात् समाययौ ॥१२७।। तं धर्मबान्धवं ज्ञात्वा, कपट श्रावकं तदा । रक्षार्थं तस्य दत्वाश्वं, गतो ग्रामे स मित्रयुक् ॥१२८।। मार्जारस्य यथा दुग्धं, रक्षणार्थं समर्प्यते । तथा मायाविनस्तस्य, तुरगोऽसौ समर्पितः ॥१२९।। गृहे पुत्रकलत्रादेर्दत्ता शिक्षा न कस्यचित् । ततः स एव मायावी, चकार हयपालनम् ॥१३०।। रात्रौ घोरान्धकारे स, पापात्मा कपटी नरः । अश्वमारुह्य वेगेन, निर्गतो मन्दिराबहिः ॥१३१॥ श्राद्धेन शिक्षितो वाजी, मार्गेऽन्यस्मिन्न गच्छति । चैत्ये सरोवरे याति, पश्चादायाति मन्दिरे ॥१३२॥ ताडितोऽपि कशाघातैरन्यमार्गे न गच्छति । क्रियमाणे गतायाते, विभाता सर्वशर्वरी ॥१३३।। अश्वं मुक्त्वा स मायावी, प्रणष्टो दिवसोदये । आगतः श्रावको ग्रामात् , वाजीन्द्ररक्षणोत्सुकः ॥१३४।। व्यलोकयद्यदा सोऽश्वं, ददर्श पीडितं तदा।। ज्ञात्वा मायाविवृत्तान्तं, भूपतेस्तं न्यवेदयत् ।।१३५।।
15