________________
[४१
द्वितीयः पल्लवः]
अन्यस्य कस्य विश्वासो, भूपते व जायते । तेनासौ जिनदत्तस्य, हयो रक्षार्थमर्पितः ॥१११।। दत्वाश्वरक्षणे शिक्षा, घनां राज्ञा स मानितः । हयं लात्वा गतो गेहे, श्रावकोऽसौ व्यचिन्तयत् ॥११२॥ हा कोऽयं मम सन्तापः पतितः केन कर्मणा ? । पशुपालनजं दुःखं, नृणां भवति दुस्सहम् ॥११३।। मित्रपुत्रकलत्रादेः, विश्वसामि न कस्यचित् । यत्नेन रक्षणीयोऽयं, राजकार्यं हि दुष्करम् ॥११४॥ ध्यात्वेति हृदि तेनाथ, गुप्तस्थाने धृतो हयः । परिचर्यां स्वयं कुर्याज्जलपाने स्वयं व्रजेत् ।।११५।। जैनप्रासाद एकोऽस्ति, सरोमार्गे च तत्र सः । तिस्रः प्रदक्षिणा दत्वा, जिनं नत्वाऽग्रतोऽगमत् ॥११६।। अश्वं सरसि पायित्वा, वलित्वा तज्जिनालये । पुनः प्रदक्षिणां दत्वा, जिनं नत्वाऽगमद् गृहे ॥११७।। जलपानक्षणे नित्यमेवं कुर्वत्युपासके । सुरालयं सरश्चैव, स जानाति तुरङ्गमः ॥११८॥ अन्यमार्गे न यात्येव, प्रेरितोऽपि हयोत्तमः । राज्ञा तस्य प्रभावेन, जिता अन्ये नृपा घनाः ॥११९॥ सप्रभावो हयो ज्ञातस्ततः केनापि वैरिणा । प्रेषितः कपटी कोऽपि, हयापहारहेतवे ॥१२०॥ स दम्भश्रावकीभूय, गतोऽश्वस्थितिमन्दिरे । साधर्मिकतया तस्य, श्राद्धनावर्जना कृता ॥१२१॥ तस्यापि बाह्यरङ्गेण, विश्वस्तं श्रेष्ठिनो मनः । श्राद्धेन सर्ववार्ताऽपि, तदग्रे प्रीतितः कृता ॥१२२।। तेन मायाविना वार्ता, कृता पुण्यस्य भूरिशः । श्राद्धेन भद्रकत्वात्तु , तच्चित्तं नोपलक्षितम् ॥१२३।।