________________
४]
[धर्मकल्पद्रुमः विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमा विद्या, स्त्रीरत्नं दुष्कुलादपि ॥१९॥ सन्तोषस्त्रिषु कर्त्तव्यः, स्वदारे भोजने धने । त्रिषु चैव न कर्त्तव्यो, दाने चाध्ययने तपे ॥१०॥ चतुर्दशीकुहूराकाष्टमीषु न पठेन्नरः । सूतके च तथा राहुग्रहणे चन्द्रसूर्ययोः ॥१०१॥ अथाल्पकालतः सर्वं, पूर्वाधीतमिव श्रुतम् । पठितं धर्मदत्तेन, कलाः शेषाश्च शिक्षिताः ॥१०२।। स पश्चात् पुण्यशालायां, पठनार्थं निवेशितः ।
संप्राप्ता साधुपायें च, तेन धर्मस्य सत्कला ॥१०३।। गाहा- बावत्तरिकलाकुसला, पण्डियपुरिसा अपण्डिया चेव ।
सव्वकलाण य पवरं, धम्मकलं जे ण जाणन्ति ॥१०४॥ [ र.स./९५ ] आवश्यकं द्विवेलं च, त्रिकालं जिनपूजनम् । चक्रे धर्मी धर्मदत्तो, विशेषाज्जनकादपि ॥१०५।। प्रत्याख्यानं करोति स्म, प्रासुकञ्च जलं पपौ । बालकोऽपि गृहस्थोऽपि, यतिवत् स क्रियां व्यधात् ॥१०६॥ क्रमेण प्राप तारुण्यं, वनिताजनमोहनम् । सुता तेन महेभ्यस्य, परिणीता महोत्सवात् ॥१०७।। परं शास्त्ररसे मग्नो, नामुचत् पुस्तिकां करात् ।। बालत्वे यः कृतोऽभ्यासस्तत्रैव रमते जनः ॥१०८॥ यथा कस्मिन् पुरे श्राद्धो, जिनदत्ताभिधोऽभवत् । अश्वादिकपशूपास्ति, न करोति कदापि सः ॥१०९।। एकदा तत्पुरेशस्य, नवोऽश्वः केन ढौकितः । जात्याश्वं लक्षणोपेतं, राजा तं वीक्ष्य हर्षितः ॥११०॥
20
१. मनः इति वा ।