________________
द्वितीयः पल्लवः]
[३९ पाण्डित्ये गणिते शिल्पे, तथा सर्वकलासु च । धर्मार्थकाममोक्षेषु , पुरुषः कुशलो भवेत् ॥८६॥ पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलाः । तस्मान्मूर्खसहस्त्रेण, प्राज्ञ एको न लभ्यते ॥८७॥ वरं पर्वतदुर्गेषु , भ्रान्तं वनचरैः सह । मा मूर्खजनसंपर्कः, सुरेन्द्रभवनेष्वपि ॥८८॥ मूर्खस्तु परिहर्त्तव्यः, प्रत्यक्षो द्विपदः पशुः । विध्यते वाक्यशल्येन, अदृष्टः कण्टको यथा ॥८९॥ मूर्खशिष्योपदेशेन, दुष्टस्त्रीभरणेन च । द्विषतां संप्रयोगेन, पण्डितोऽप्यवसीदति ॥१०॥ मूर्खाणां पण्डिता द्वेष्या, अधनानां महाधनाः । पण्याङ्गनाः कुलस्त्रीणां, सुभगानाञ्च दुर्भगाः ॥११॥ धनधान्यप्रयोगेषु , विद्यासंग्रहणेषु च ।
आहारे व्यवहारे च, सोद्यमश्च सदा भवेत् ॥१२॥ यतः- अलसस्य कुतो विद्या ? अविद्यस्य कुतो धनम् ? ।
अधनस्य कुतो मित्रममित्रस्य कुतो बलम् ? ॥१३॥ अबलस्य कुतो मानो, ? ह्यमानस्य कुतो यशः ? । यशोरहितदेहस्य, जीवितान्मरणं वरम् ॥१४॥ अत एव वरा विद्या, सेविता सर्वकार्यकृत् । यस्या प्रसादतो विश्वे, गुरुशुक्रसमो भवेत् ॥१५॥ किङ्गजितेन वृषभेण पराजितेन ? किङ्कोकिलेन च रुतेन गते वसन्ते ?। किङ्कातरेण बहुशस्त्रपरिग्रहेण ? किञ्जीवितेन पुरुषेण निरक्षरेण ? ॥१६॥ गुरुशुश्रूषया विद्या, पुष्कलेन धनेन वा । अथवा विद्यया विद्या, चतुर्थी नोपलभ्यते ॥१७॥ हेतुयुक्तञ्च तथ्यञ्च, सत्यं साधु जनप्रियम् । मूर्यो वक्तुं न जानाति, स जिह्वां किं न रक्षति ? ॥१८॥
15
20
25