________________
३८]
[धर्मकल्पद्रुमः सञ्जाते सप्तमे वर्षे, स महोत्सवपूर्वकम् ।
पठितुं लेखशालायां, मुक्तः पित्रा महामतिः ॥७३।। यतः- विना विद्यां सुरूपोऽपि, नार्थ्यते कुत्रचिन्नरः ।
यथा चातुलिपुष्पाणि, नार्थ्यन्ते रूपवन्त्यपि ॥७४॥ किं कुलेन विशालेन, विद्याहीनस्य जन्मना । सविद्यः पूज्यते लोके, निविद्यः परिभूयते ॥७५॥ अजातमृतमूर्खेभ्यो, मृताजातौ सुतौ वरौ । यतस्तौ स्वल्पदुःखाय, यावज्जीवं जडो दहेत् ॥७६॥ विद्या यशस्करी पुंसां, विद्या श्रेयस्करी मता । सम्यगाराधिता विद्या, देववत् कामदायिनी ॥७७॥ विद्वत्त्वं च नृपत्वञ्च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥७८॥ अनभ्यासे विषं शास्त्रं, अजीर्णे भोजनं विषम् । दरिद्रस्य विषं गोष्ठी, वृद्धस्य तरुणी विषम् ॥७९॥ गतेऽपि वयसि ग्राह्या, विद्या सर्वात्मना बुधैः । यदीह स्यान्न फलदा, सुलभा चान्यजन्मनि ॥८०॥ देवताराधने दाने, विद्याभ्यासे सदौषधे । क्षमायां परमो यत्नः, कर्तव्यो विजिगीषुणा ॥८१॥ धनहीनो न हीनस्तु न धनं कस्य निश्चलम् । विद्याहीनस्तु यः कश्चित् , स हीनः सर्ववस्तुषु ॥८२॥ विद्या यद्यस्ति का चिन्ता, वराकोदरपूरणे । शुकोऽपि कूरमश्नाति, चत्वरे राममुच्चरन् ॥८३॥ यत्र विद्यागमो नास्ति, यत्र नास्ति धनागमः । यत्र आत्मसुखं नास्ति, न तत्र दिवसं वसेत् ॥८४॥ जलबिन्दुनिपातेन, क्रमश पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥८५॥
15
25
१. आवल इति देशीयाभिधानम् ।