________________
द्वितीय: पल्लवः ]
जिनधर्मप्रभावेन, तथा भावी सुतस्तव । परं त्वं सुतसौख्यादि, लप्स्यसे नैव शङ्कया ||६०|| तदा श्रीपतिना प्रोक्तमस्ति लोकोक्तिरीदृशी । बुभुक्षातो हि रब्बाया, अपि पानं भवेद्वरम् ॥६१॥ अवर्षणं विनाश्वत्थबिन्दुपातोऽपि तापहृत् । असन्ततेरपीदृक्षः, सुतो मेऽस्तु सुरीश्वरि ! ॥६२॥ वन्ध्योऽयमिति लोकेऽत्र, मम मा भूत् कदर्थना । इत्युक्ता श्रेष्ठिना देवी, वरं दत्त्वा तिरोदधे ॥६३॥ प्रत्यूषे स प्रियां प्राह, रजन्यामद्य सुन्दरि ! | प्रोक्तं शासनदेव्या मे, तव पुत्रो भविष्यति ॥६४॥ श्रुत्वैवमवदत् कान्ता, स्वामिन् ! स्वप्ने मयापि च । पूर्णकुम्भः फलोपेतो, दृष्टो मन्दिरमध्यगः ॥६५॥ भविष्यति सुतो नूनं, एतत्स्वप्नानुभावतः । इति प्रमुदितौ तौ द्वौ, विचारं चक्रतुर्मिथः ॥६६॥ तद्दिनात् स्वर्गतश्च्युत्वा, पुण्यात्मा कोऽपि निर्जरः । उत्पन्नः श्रीमतीकुक्षौ, जाताश्च शुभदोहदाः ||६७|| नवमासेषु पूर्णेषु, सार्धाष्टदिवसेषु च । श्रेष्ठिनी सुषुवे सूनुं, मार्तण्डमिव पूर्वदिग् ॥६८॥ तदा वर्धापितः श्रेष्ठी, स्वजनैरतिहर्षितैः । सोत्साह उत्सवं चक्रे चक्रे चामारिघोषणम् ॥६९ || सकलं बलिकर्मादि, तथा चन्द्रार्कदर्शनम् । षष्ठीजागरणं चापि, सर्वमेतत्कृतं तदा ॥७०॥ धर्म्मदत्तेति तन्नाम, कृतं धर्मो ददौ यतः । पित्रोर्मनोरथैः सार्धं, ववृधे स दिने दिने ॥७१॥ कदोत्सङ्गे कदा स्कन्धे, हस्ताद्धस्तेषु सञ्चरन् । पोषितो लालितश्चापि, जातः षड्वार्षिकः सुतः ॥७२॥
[ ३७
5
10
15
20
25