________________
[धर्मकल्पद्रुमः पठितुं ज्ञानशालायामिमौ यातौ महामुदा । पयस्समरिचं पुष्टेः (पुष्ट्यै), प्रगे साऽपाययत्तराम् ॥४८।। तत्पुत्रो धनदेवस्तु, निश्शकं पिबति प्रगे । पयःपानं विना पाठः, कथं शक्येत बालकैः ? ॥४९॥ पयः समरिचं दृष्ट्वा, समाक्षिकविरेकया । धनपाल: पपौ दुग्धं, विमात्राशङ्कया सदा ॥५०॥ विमातेयं कथं मे स्यात् , सर्वथा हितकारिणी । एवं दुश्चिन्तनादेष, क्षीयते स्म दिने दिने ॥५१॥ तस्यास्ताडनभीतोऽसौ धनपालः पयोऽपिबत् । अभूद्वल्गुलवातोऽथ, जीवितव्यविघातकः ॥५२॥ वैद्यानां दर्शितः सोऽथ, धनेन धनदायिना ।। नासावुवाच दुर्ध्यातं, मतिः कर्मानुसारिणी ॥५३॥ क्षताङ्गः प्राप पञ्चत्वमेष वल्गुलवायुना । शङ्कयातङ्कया किं न, भवेद्भवभृतां किल ? ॥५४॥ निःशङ्कं धनदेवोऽथ, पिबन् दुग्धमनारतम् । अधीती क्रमशो गेहाधिपती राजति स्म सः ॥५५।। इहलोकसुखादेष, शङ्कया निरमुच्यत ।
निर्वृतेर्जनकात्तद्वत् , सम्यक्त्वात्तत्त्वसेवधेः ॥५६॥ यतः- धनेन हीनोऽपि धनी मनुष्यो, यस्यास्ति सम्यक्त्वधनं प्रधानम् । धनं भवेदेकभवे सुखार्थं, भवे भवेऽनन्तसुखा सुदृष्टिः ॥५७॥
इति धनपालकथा ॥ $$ श्रीपते ! शृणु मद्वाक्यं, संशयेन त्वया खलु ।
दूषितो जिनधर्मोऽथ, तत्फलं तव कथ्यते ॥५८॥ यथा जात्यं महारत्नं, वरं मुक्ताफलं पुनः । रेखया लाञ्छितं हीनं, स्वल्पमूल्यं भवेत् किल ॥५९॥
20
25