________________
द्वितीय: पल्लवः ]
शङ्कया रहितो धर्म्मः, कृतो भूरिफलप्रदः । संशयेन कृतं सर्वं, जलरेखेव तद् वृथा ॥३६॥ स्थले जलं जले रेखा, बुभुक्षितमुखे फलम् । शङ्कया सहितं पुण्यं, स्थिरत्वं नैव जायते ॥३७॥ गाहा- आरंभे नत्थि दया, महिलासङ्गेण नासए बंभं ।
सङ्काए सम्मत्तं, पव्वज्जा अत्थगहणेणं ॥३८॥ [ सं.श./९३] शङ्कया दुष्यन्ते सम्यग्दर्शनं मुक्तिदायकम् । चित्रं लुठितमष्येव, स्वैरिण्येव महाकुलम् ॥३९॥ यथा निर्गमितं जन्म, धनपालेन शङ्कया । सम्यक्त्वधर्मं कार्यञ्च, तथा गच्छति शून्यताम् ||४०|| पुरे क्षितिप्रतिष्ठाख्ये धनो नाम धनी वणिक् । धनश्रीः प्रेयसी तस्य, धनपालसुतस्तयोः ॥ ४१॥ अमुक्तबालभावेऽस्मिन्, सञ्जज्ञे जननीमृतिः । महद्दुःखनिदानं हि, बालानां जननीमृतिः ॥४२॥ शिशूनां जननीनाशो, भार्यानाशस्तु यौवने । वृद्धस्यात्मजनाशश्च, दुःखमेभ्यः परं न हि ॥४३॥ धनपालममुं बालं, धनो वीक्ष्य व्यचिन्तयत् । पूतरः कुञ्जरीकर्तुं कथं शक्यः स्त्रियं विना ॥४४॥ विमृश्येति धनः श्रेष्ठी, धनदानाद्धनश्रियम् । उपायंस्त प्रशस्ताङ्ग, गृहिणी गृहमीरितम् ॥४५॥ यतः- न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
9
गृहं तु गृहिणीहीनमरण्यसदृशं मतम् ॥४६॥ ततः सूनुमसूतैषा, विषयारम्भिकं फलम् । सपत्नीसंभवं पुत्रं, निजपुत्रमिवैक्षत ॥४७॥
तद्यथा
यतः
१. कोहमोहेणं, इति वा पाठः ।
[ ३५
5
10
15
20