________________
३४]
[धर्मकल्पद्रुमः उक्तञ्च- साम्राज्यं सुकृतेन, शीतरुचिना ज्योत्स्ना दिनं भानुना,
जीमूतेन सुकालता सुगुरुणा धर्मो नयेनेन्दिरा । सद्विद्या विनयेन, मङ्गलततिर्धर्मेण, साम्ना सुखम् , नैरोग्यं सुधयाऽर्हता भगवता मुक्तिर्भवेद्भाविनाम् ॥२४॥ अतुलसुखनिधानं सर्वकल्याणबीजम् , जननजलधिपोतं भव्यसत्त्वैकचिह्नम् । दुरिततरुकुठारं पुण्यतीर्थप्रधानं, पिबत जितविपक्षं दर्शनाख्यं सुधाम्बु ॥२५॥ एवं मित्रस्य, वचसा, मुक्त्वा मिथ्यात्वकारणम् । आराधयत्सदा श्रेष्ठी, जिनधर्मं कृपामयम् ॥२६॥ जपति स्म नमस्कारं, त्रिसन्ध्यं देवपूजनम् । आवश्यकं द्विसन्ध्यञ्च, करोति स्म सुभावतः ॥२७॥ वन्दते स्म गुरून्नित्यं, दानं दत्ते स्म साधवे । आराधयंश्च पर्वाणि चकार विविधं तपः ॥२८।। अमारिं तीर्थयात्राञ्च, दीनोद्धारं तथाऽकरोत् । सप्तक्षेत्रेष वित्तं स व्ययति स्म महामतिः ॥२९॥ इत्थञ्चाखण्डितं पुण्यं, कुर्वतः प्रियया सह । श्रेष्ठिनः तस्य षण्मासा, व्यतिक्रान्ता महासुखम् ॥३०॥ पाश्चात्यनिशि सोऽन्येधुर्गतनिद्रो व्यचिन्तयत् । गता धर्मेण षण्मासाः, किं फलं मे भविष्यति ? ॥३१॥ जैने मते कृते किन्तु , फलसिद्धिर्न दृश्यते । किमेष निष्फलो धर्मः ? इति ध्यायत्यसौ यदा ॥३२॥ प्रत्यक्षीभूय तं प्राह, तदा शासनदेवता । रे मूढ ! जितं फलकं, मा मुधा हारयाधुना ॥३३।। यथाऽब्धौ भग्नपोतोऽपि, संप्राप्ते फलके सति । तटासन्नं गतः कश्चिद्वायुनाऽन्यत्र नीयते ॥३४॥ तथान्तरायकर्माब्धेर्यावत्त्वं पारमागतः । तावच्छङ्काकुवातेन, पुनः पश्चात् प्रपात्यसे ॥३५॥
15
25