________________
प्रथमः पल्लवः]
[३१ देववत् स सदा भोगानन्वभूत् प्रियया सह । अतो भाव्यं भवत्येव, कथाचूडविवाहवत् ॥३३५।। धर्मं श्रुत्वा गुरोः पार्वे, गृहीतं श्रावकव्रतम् । तच्छुद्धं दम्भमुक्तेन, तेन भावेन पालितम् ॥३३६।। ततो द्वादशभेदेन, तपस्तेपे स दुष्करम् । सम्यक्त्वं निरतीचारं, पालितं पापनाशनम् ॥३३७।। कुर्वतोऽस्य क्रियामुग्रां, गृहस्थस्यापि केवलम् । उत्पन्नं चागतः शक्रः, केवलोत्सवहेतवे ॥३३८।। तदा शासनदेव्यापि, यतिवेषः समर्पितः । सहस्रपत्रपद्मं च, सौवर्णं रचितं सुरैः ॥३३९।। सद्देशना देवसभासमक्षं, तदा कृता केवलिना सुधाभा । एवं कथाचूडमुनिश्चिरं स, व्रतं प्रपाल्याथ जगाम मोक्षम् ॥३४०॥ इति श्रीवीरदेशनायां श्रीधर्मकल्पद्रुमे मुख्यचतुःशाखिके प्रथमदानशाखायां धर्मदत्तकथासंयुक्ते श्रीचन्द्रयशोनृपाख्याने
प्रथमः पल्लवः समाप्तः ॥१॥
15