________________
40
३२]
[धर्मकल्पद्रुमः साश्चर्योऽथ नृपो दध्यौ, अहो विलसितं विधेः ।
यन्नो मिलेन्मिलत्येव, तत्क्षणादपि दैवतः ॥३२२॥ उक्तञ्च- न सदलैर्न बलैर्न तु मन्त्रणैर्न च धनैः स्वजनैर्न तु बन्धुभिः ।
सुरवरैर्न नरैरपि वार्यते, विधिरहो बलवानिति मे मतिः ॥३२३॥ विद्वान्मूो भटो भीरुः, श्वपाकः पाकशासनः । राजा रङ्कस्तथान्येऽपि, शासने को न दुर्विधेः ? ॥३२४॥ ततो राजा निमित्तज्ञं, सन्तोष्य बहुदानतः । क्षामयित्वापराधं स्वं, कुमारञ्चातिहर्षितः ॥३२५।। सौभाग्यमञ्जरीपुत्रीमुद्वाह्य स कुमारराट् । राज्ञा स्वसैन्ययुक्तोऽथ, प्रेषितो मिथिलापुरीम् ॥३२६।। युग्मम् ।। हर्षेण रणसारेण, प्रवेशो विस्तरात् कृतः । कुशाग्रपत्तने विप्रः, प्रेषितः क्षेमहेतवे ॥३२७॥ राज्ञा पुरोहितः पश्चात् प्रेषितो मिथिलापुरे । सुतायुक्तस्य जामातुरामन्त्रणकृते पुनः ॥३२८।। कथाचूडः ससैन्योऽथ, गतस्तत्र प्रियायुतः । समकेसरिणा तस्य, विवाहो विस्तरात् कृतः ॥३२९।। गजाश्वहेमरत्नौघदेशदानेन भूभुजा। करमोचनवेलायां, जामाता बहु मानितः ॥३३०।। मुत्कलाप्याखिलं लोकमनुज्ञाप्य नरेश्वरम् । स चचाल प्रियायुक्तः, स्वपुरं प्रति सत्वरम् ॥३३१॥ शिक्षा दत्तेति भूपेन, स्वसुताया विवेकतः । हे वत्से ! त्वं सुखे दुःखे, भूयाः पत्यनुगामिनी ॥३३२॥ प्रहृष्टवदना नित्यं, स्थानमानविचक्षणा । भर्तुः प्रीतिकरा या तु , सा भार्या त्वितरा जरा ॥३३३।। एवमुत्तमशिक्षां स, दत्त्वाऽथ वलितो नृपः । चलितौ दम्पती तौ तु , प्रापतुर्मिथिलापुरीम् ॥३३४।।
20
25