________________
प्रथमः पल्लवः ]
चेटकः प्राह भो भूप, त्वदादेशः कृतो मया । सर्प्परूपेण दष्टोऽसौ, कुमारो वाहितोऽम्बुधौ ॥३१०॥ श्रुत्वैवं नृपतिः प्राह, नरं नैमित्तिकं प्रति ।
अरे अलीकं मा जल्प, कूटभाषी सदासि किम् ? ॥३१९॥ लोकोक्तिरीदृशी सत्या, कृतैवं वदता त्वया । प्रत्यक्षं पतिता कूपे, वधूः पितृगृहेऽस्ति यत् ॥३१२॥ विप्रो जगाद दूरेऽस्ति किमङ्गस्य करच्छा ।
स्वामिन् ! यद्यस्ति ते शक्तिस्तत्स्वरूपं विलोकय ॥३१३॥ चेटकाय ददौ वाक्यमरे ! तं द्रुतमानय । भूपादेशं च संप्राप्य, चेटको वेगतो गतः ॥३१४॥ तत्क्षणाद्देवशक्त्या स, आनीतस्सप्रियस्ततः । कुमारो भूभुजा दृष्टः, परिणीतो वधूयुतः ॥३१५॥ विस्मितो मानसे भूपस्तं पप्रच्छ नृपाङ्गजम् । युवयोः पाणिग्रहणं, सञ्जातं केन हेतुना ? ||३१६ ॥ कुमारः स्माह हे राजन् ! शृणु त्वमावयोः कथाम् । यदाहमहिना दष्टः, प्रक्षिप्तश्च महोदधौ ॥३१७॥ तदा कन्याप्यसौ साधवी, सोत्साहा शुभलोचना । गवाक्षस्था च केनाप्यपहृता पापकर्मणा ॥ ३१८॥ मुक्ता द्वीपान्तरे कुत्र, स्थिता सा तत्र दुःखिता । इतश्चाहं निम्बपत्रैर्वेष्टितो जीवितोऽपि सन् ॥३१९॥ अम्भोधिलोलकल्लोलैः, प्रेर्यमाणः सुकर्म्मतः ।
तं द्वीपं प्राप चाकृष्य, तया सज्जीकृतो द्रुतम् ॥ ३२० ॥ युग्मम् ॥ विवाहोऽप्यावयोर्लग्ने, कृतो विद्याधरैस्तदा । अत्रानीतोऽपि केनापि, मुक्तश्चाहं तवान्तिके ॥३२१||
१. किं गल्लस्य । पाठान्तरम् ।
[ २९
5
10
15
20