________________
२८]
[धर्मकल्पद्रुमः कालरात्रिसमं रूपं, कृत्वा सर्पस्य दारुणम् । कथाचूडान्तिके गत्वा, पादे दष्टः सुरेण सः ॥२९७।। विषेण घोरितो यावत् , जातश्चेतनवर्जितः । अर्धरात्रे महाहाहाकारश्चोच्छलितस्तदा ॥२९८।। सैन्या आकुलिताः सर्वे, भ्रान्तचित्ता दिशोदिशम् । अभ्रमन् भयभीताश्च, केऽपि गारुडिकं व्यधुः ॥२९९।। मणिमन्त्रौषधगदैर्गुणः कोऽपि बभूव न । चेटकोऽसौ नृपादेशात् पुंरूपं चाकरोत् पुनः ॥३००। सदौषधिभृतं स्कन्धे, घटिकं न्यस्य तत्र सः । आह गारुडिकोऽत्राहं, परदेशात् समागतः ॥३०१।। दृष्ट्वा चेष्टां कुमारस्य, फणीन्द्रविषवारिणीम् । प्रतिक्रियां चकारासौ, गुणो नैवाभवत् परम् ॥३०२॥ निर्विषीकरणोपाया, एवं दम्भात् कृता घनाः । जातः कोपि विशेषो न, तदा देवोऽवदत् पुनः ॥३०३॥ अहो कालगृहीतोऽयमावेष्ट्य निम्बपल्लवैः । अब्धौ प्रवाहितव्योऽथ, किं शवेन विधीयते ? ॥३०४।। हाहाकारं ततो मुक्त्वा, क्षिप्त्वा तं च महोदधौ । सशोकाः सैन्यकास्तस्थुस्तत्र राजसुतं विना ॥३०५।। पुरोहितोऽपि दीनास्यो, महादुःखादचिन्तयत् । अन्यथा चिन्तितं कार्य, कृतं दैवेन चान्यथा ॥३०६॥ गतं लग्नदिनं तावत् , हर्षितो नृपतिस्ततः । विवाहकारणं राज्ञा, पुनः पृष्टो निमित्तवित् ॥३०७।। विप्रोऽप्याह महाराज, विवाहो जात एतयोः । यदि चित्ते प्रतीतिर्न, तदा तं पृच्छ चेटकम् ॥३०८।। स्मृतोऽयं चेटको राज्ञा, समागादचित्ताञ्जलिः । पुनः पृष्टं नरेन्द्रेण, किङ्कार्यं विहितं त्वया ? ॥३०९।।
25