________________
प्रथमः पल्लवः ]
तस्य पुत्री सुनन्दाऽभूत् संप्राप्तवरयौवना । स्त्रीरत्नमतिनिष्पन्ना, विद्याविज्ञानभारती ॥२८५॥ कथाचूडवरस्यार्थे, राज्ञा प्रैषि पुरोहितः । तेनापि मिथिलां गत्वा, विज्ञप्तो रणसारराट् ॥२८६॥ स्वामिन्मगधनाथस्य, सुनन्दास्ति सुता वरा । तव पुत्रस्य दानाय, भूपेन प्रेषितोऽस्म्यहम् ॥२८७॥ ततः पुरोधसा सार्धं, प्रेषितः सैन्यसंयुतः । मार्गे लक्ष्मीपुरे गत्वा, पटकुट्यां स संस्थितः ॥२८८॥ पुरेऽत्र कुरुते राज्यं, सुरकेतुर्नराधिपः । वेत्रिणा कथितं तस्य, कुमारागमनं तदा ॥ २८९॥
सुरकेतुगृहेऽप्यग्रेऽस्त्येको नैमित्तिको महान् ।
स राज्ञा कौतुकात् पृष्टो, विवाहोऽसौ भवेन्न वा ॥ २९०॥ स जगाद विवाहो हि, भविष्यत्यनयोर्द्वयोः । त्रिदशैश्चाल्यमानेऽपि, तद्दिनं न चलिष्यति ॥२९१॥ राज्ञोक्तं शृणु भो विज्ञ !, कदाहं (पि) चालयामि तत् । किं तदा भवतः कुर्व्वे ?, कथय प्रकटाक्षरम् ॥२९२॥ विप्रो जगाद यदि चेत्, कदा केनापि चाल्यते । तदा मे रसनाच्छेदः, कार्यः किं कथ्यते घनम् ? || २९३ ||
इति विप्रपणं श्रुत्वा, भूपोऽप्येवमचिन्तयत् । केन कूटप्रपञ्चेनास्य ज्ञानं क्रियते वृथा ||२९४||
पूर्वप्रसाधितो राज्ञा, चेटक ः संस्मृतस्तदा ।
प्रत्यक्षीभूय सोऽवादीत् कार्यं मे कथ्यतां प्रभो ! ||२९५ ॥
"
राज्ञोक्तं देव ! सर्प्पस्त्वं, भूत्वा दश कुमारकम् ।
कूटो भवेद्यथा विप्रः, सत्यं च स्यान्मयोदितम् ॥ २९६॥
१. न्नविद्या० पाठान्तरम् ।
[ २७
5
10
15
20