________________
5
10
15
20
25
२६]
[ धर्मकल्पद्रुमः
न मातरि न सोदर्ये, न दारेषु न बन्धुषु । विश्रम्भस्तादृशः पुंसां यादृग् मित्रे निरन्तरम् ॥२७२॥ पुनर्धर्म्मधनः प्राह श्रीपतिं प्रति सत्यवाक् । देवोऽपि भाविनीं रेखां, को नु मार्जयितुं क्षमः ? || २७३ || भवितव्यनियोगेन, भाव्यं भवति नान्यथा । नालिकेरफलाम्भोवद्, गजभुक्तकपित्थवत् ॥ २७४॥ कर्मायत्तं फलं पुंसां, बुद्धिः कर्म्मानुसारिणी । तथापि सुधियः कार्यं, सुविचार्यैव कुर्वते ॥ २७५॥ विधिना विहिते मार्गे, यद्भवेद्दैवनिम्मितम् । न शक्यमन्यथाकर्तुं, सशक्रैस्त्रिदशैरपि ॥२७६॥ कथयामि पुनस्तेऽहं, भवितव्योपरि स्फुटम् । सोत्कर्णं श्रूयतां चैतत्, कथाचूडकथानकम् ॥२७७॥ तथाहि - जम्बूद्वीपेऽत्र भरते, नाम्नास्ति मिथिलापुरी । रणसारो रसानाथस्तत्राभूदिन्द्रसन्निभः ॥२७८॥ सती शीलवती तस्य, प्रिया प्रेमगुणान्विता । कान्तानुगामिनी नित्यं, सुरूपाऽऽनन्ददायिनी ॥ २७९॥ यतः - पत्यौ रता सुशीला च, रतक्षणविचक्षणा |
प्रियंवदाऽतिरूपा च पुण्यैः सम्प्राप्यते प्रिया ॥ २८० ॥ तयोर्द्दिवानिशं प्रीत्या, दम्पत्यो रममाणयोः । अन्येद्युः शुभयोगेन, जातः पुत्रो महाद्युतिः ॥ २८१॥ पित्रा चक्रे कथाचूडो, नाम तस्य महोत्सवात् । क्रमात्तेनाऽखिलं शास्त्रं, कलाभिः सह शिक्षितम् ॥२८२॥ क्रमात् स यौवनं प्राप, युवतीजनमोहनम् । स्वेच्छया रमते नित्यं, कथाचूडकुमारकः ॥ २८३॥ इतश्च मगधे देशे, कुशाग्रपुरपत्तने । समकेशरी राजाऽभूच्छत्रुकुञ्जरकेशरी ॥२८४॥