________________
प्रथमः पल्लवः ]
साधुवाक्यमिति श्रुत्वा धृत्वा सत्त्वं निजे हृदि । चचाल वेगतो मेषः, सर्वलोकैर्निरीक्षितः ॥२६०॥ तदाश्चर्यं जना दृष्ट्वा, चिन्तयन्ति स्वमानसे । कुट्टितोऽप्येष नाचालीन्मुनिना चालितः कथम् ? ॥२६१ ॥ देवदत्तोऽब्रवीत् साधो !, कृपां कृत्वा ममोपरि । छागचालनमन्त्रोऽयं, दीयतां मह्यमुत्तमः ॥२६२॥
मुनिनोक्तञ्च रे मूर्ख, त्वत्पिताऽयं न वेत्सि किम् ? । कृत्वा मिथ्यात्वमार्त्तेन, मृत्वाऽसौ च्छगलोऽभवत् ॥२६३॥
अट्टेण य तिरियगई, रुद्दज्झाणेण पावए नरयं ।
धम्मेण देवलोओ, सिद्धिगई सुक्कझाणेणं ॥ २६४॥ [र.स./ १०२ ] तवास्ति यदि सन्देहस्तदामुं नय मन्दिरे ।
पतित्वा पादयोस्ततः ॥२६५॥
मुत्कलं मुञ्चयित्वा कथितव्यं त्वया तात !, संप्राप्तं मरणं यदा ।
तदा मया न किं पृष्टं, दुःखपीडितचेतसा ? ॥ २६६ ॥ युग्मम् ||
,
देवदत्ताभिधस्सूनुस्तवाहं कथ्यतां ततः । निधानमस्ति यत्किञ्चित् प्रसद्य मम दीयताम् ॥ २६७॥
एवं कृतेऽथ मेषेण, सौधकूणे निजाङ्घ्रिणा । दर्शितं निधिसंस्थानं, स प्राप खनिते धनम् ॥२६८||
[ २५
काव्यम्- सम्प्राप्तसङ्केत ऋषेर्वचोभिः, सुश्रावकत्वं हि तदा स भेजे । मिथ्यात्वमुन्मूल्य सुशुद्धधर्मं चकार नित्यं द्विजदेवदत्तः ॥२६९॥ अतस्त्वं श्रीपतिश्रेष्ठिन् ! महादुर्गतिकारणम् ।
मिथ्यात्वं सर्वथा मुञ्च, वच्मि मित्र तवाहितम् ॥२७०॥
यतः - पापान्निवारयति योजयते हिताय,
गुह्यं निगूहति गुणान् प्रकटीकरोति ।
आपद्गतञ्च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ २७९ ॥
5
10
15
20
25