________________
२४
10
[धर्मकल्पद्रुमः प्रतिवर्षं पुनश्छागमेकैकं पुरतस्तव । हनिष्यामि ततो देवि !, वाञ्छां पूरय पूरय ॥२४८॥ अथ तस्याऽभवत् पुत्रः, कर्मणा कालयोगतः । देवदत्तेति नाम्नासौ, निर्ममे देवशर्मणा ॥२४९॥ देवताभवनं तेन, नवीनं कारितं ततः । परितो वाटिका चक्रे, खानितं च सरोवरम् ॥२५०।। हतश्छागोऽथ देव्यग्रे, महोत्सवपुरस्सरम् । अजमेकं च मिथ्यात्वी, प्रतिवर्षं जघान सः ॥२५१।। क्रमेण देवदत्तोऽसौ, संप्राप्तवरयौवनः ।
परिणीतोऽथ तत्तातो महातध्यानतो मृतः ॥२५२।। यतः- राज्योपभोगशयनासनवाहनेषु ,
स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्धयानं, तदातमिति तत्प्रवदन्ति सन्तः ॥२५३॥ अजो जातः पुरे तत्र, स्थूलरोमा रुषान्वितः । पुष्टदेहो बलिष्ठश्च, करालः कपिलच्छविः ॥२५४।। वर्षान्ते देवदत्तेन, स क्रीतो द्रव्यदानतः । सस्मार पूर्वजातिञ्च, च्छागो दृष्ट्वा निजं गृहम् ॥२५५।। स्वरूपं सकलं ज्ञात्वा, च्छागो भीतो व्यचिन्तयत् । देव्यग्रेऽहं वधार्थं हा, समानातीऽत्र वेश्मनि ॥२५६।। यात्रादिने स्वपुत्रेण, महोत्सवशतैर्युतः । चाल्यमानो न चलति, तदा लोकैः स ताडितः ॥२५७।। बलेन नीयमानेऽस्मिन् , ज्ञानी मार्गेऽमिलन्मुनिः ।
छागस्य कथितं तेन, पूर्वकृत्यं स्मराधुना ॥२५८।। यतः- सयमेव रुक्ख रोविया, अप्पणिया वोयड्डि कारिया ।
ओवायलुब्धपयते, किं छगला बिब्बि त्ति वाससे ? ॥२५९॥ [ ] १. चोयड्डि । २. उवायलुद्धएइते ।
25