________________
[२३
5
10
प्रथमः पल्लवः] उक्तञ्च- विषाहिरुग्वह्निरिपुव्रजेभ्यो, मिथ्यात्वमत्यन्तदुरन्तदोषम् ।
एकत्र जन्मन्यहितं विषाद्यं, मिथ्यात्वमाहन्ति नृणामनन्तम् ॥२३६॥ मिथ्यात्वं परमो वैरी, मिथ्यात्वं परमं तमः ।
मिथ्यात्वं भवकूपान्ते, पातयत्यनिशं खलु ॥२३७॥ अन्यच्च- शीलानि दानानि तपांसि पूजा, सत्तीर्थयात्रा प्रवरा दया च ।
सुश्रावकत्वं व्रतपालनञ्च, सम्यक्त्वपूर्वाणि महाफलानि ॥२३८॥ पापं यजितमनन्तभवैर्दुरन्तैः, सम्यक्त्वमेकमखिलं सहसा भिनत्ति । भस्मीकरोति सहसा तृणकाष्ठराशि, किं नोर्जितोज्ज्वलशिखो ज्वलनः प्रसिद्धः ? ॥२३९॥ अतस्त्रिधा सद्गुरुदेवधर्मभेदात् सुसम्यक्त्वमिदं प्रपाल्यम् । श्रीसम्प्रतिश्रेणिकवज्रकर्ण-श्रीरामकृष्णादिकवत् सुभावात् ॥२४०।। सम्मत्तं उच्छिन्दिय, मिच्छत्तारोवणं कुणइ नियकुलस्स ।
तेण सयलो वि वंसो, दुग्गइमुहसंमुहो नीओ ॥२४१॥ [ ] यतः- दंसणभट्ठो भट्ठो, दंसणभट्ठस्स नत्थि निव्वाणं ।
सिज्झन्ति चरणरहिया, दंसणरहिया न सिज्झंति ॥२४२॥ [सं.श./१३] दंसणभट्ठा भट्ठा, न हु भट्ठो होइ चरणपब्भट्ठो । दसणमणुपत्तस्स वि, परिअडणं नत्थि संसारे ॥२४३॥ [ आरा.प./४५७] मिच्छत्तं उच्छिन्दिय, सम्मत्तारोवणं कुणइ नियकुलस्स । तेण सयलो वि वंसो, सिद्धिपुरीसंमुहो नीओ ॥२४४॥ [ मि.कु./११] अतः कृतेऽपि मिथ्यात्वे, कदाचिन्नन्दनो भवेत् । तथापि न वरो ज्ञेयः, सोऽपि ब्राह्मणपुत्रवत् ॥२४५।। शृणु श्रेष्ठिन् ! पुरा कोऽपि, देवशम्र्मेति वाडवः । पुत्रार्थं पद्रदेव्यग्रे, जगादेति सुभक्तितः ॥२४६॥ यदि मे त्वत्प्रसादेन, पुत्रो भवति निश्चितम् । तदा देवकुलं रम्यं, कारयामि नवं तव ॥२४७।।
15
20