________________
२]
[धर्मकल्पद्रुमः गन्धेनेव प्रसूनानि, विवेकेन गुणा इव । तनयेन विना पुंसां, न विभान्ति विभूतयः ॥२२३।।
शैत्यमुत्पादयन्नने, सुधारस इवोच्चकैः । रमते तनुजन्माङ्के, धन्यानामेव योषिताम् ॥२२४॥ उत्पतन्निपतन् रिङन् , हसन् लालावलीर्वमन् । कस्याश्चिदेव धन्यायाः, क्रोडमायाति नन्दनः ॥२२५।। विना स्तम्भं यथा गेहं, यथा देहं विनात्मना । तरुर्यथा विना मूलं, तथा पुत्रं विना कुलम् ॥२२६।। किं करोमि ? क्व गच्छामि ?, निर्भाग्योऽहं हहा मम । सर्वेषामेव सौख्यानां, स्थाने नैकोऽप्यभूत् सुतः ॥२२७।। किं कुर्वे बान्धवैश्वर्यैः, ? किं कुर्वे हट्टसद्मभिः ? ।
सर्वः परिग्रहोऽप्येवमेकं पुत्रं विना वृथा ॥२२८।। यतः- पियमहिलामुहकमलं, बालमुहं धूलिधूसरच्छायम् ।
सामिमुहं सुपसन्नं, तिन्नि वि पुन्नेहिँ पावन्ति ॥२२९॥ [ ] इत्यादि चिन्तयित्वासौ, प्रोवाचैवं प्रियां प्रति । खेदं मा कुरु पुत्रार्थे, मयोपायः करिष्यते ॥२३०।। ततश्च श्रेष्ठिनारब्धं, मन्त्रयन्त्रादिपूर्वकम् । देवताराधनं देव्याः, पूजनं होमशान्तिकम् ॥२३१॥ मिथ्यात्वेऽभून्मनस्तस्य, कृतं पाखण्डिनां व्रतम् । सम्यक्त्वं मलिनञ्चक्रे, जिनधर्मविरोधतः ॥२३२॥ अथ तत्र पुरे धर्मधनो नाम्ना पवित्रधीः । मित्रं तस्यास्ति सोऽन्येधुरुवाच श्रेष्ठिनं प्रति ॥२३३।। भो मित्र ! श्रीपतिश्रेष्ठिन् ! मिथ्यात्वं मूढ मा कुरु । मिथ्यात्वतो भवेत् सिद्धिस्तदा कोऽप्यसुखी न हि ॥२३४|| मित्र ! मिथ्यात्वशब्दार्थं, विचारय निजे हृदि । यत्किञ्चित् क्रियते मिथ्या, मिथ्यात्वं हि तदुच्यते ॥२३५।।
16
25