________________
[२१
प्रथमः पल्लवः]
कथं न दृश्यते भार्या ?, या ममागमनक्षणे । प्रतिपत्तिं सदा चक्रे, रे रे क्वाद्य गताऽस्ति सा ? ॥२१०।। मध्ये दृष्ट्वा तथाऽवस्थां, पृष्टं केनासि दूमिता ? । सुप्ता शोकगृहे कस्मात् ?, वद दुःखस्य कारणम् ॥२११॥ शय्यातः सोत्थिता साध्वी, दुःखाश्रुक्लिन्नलोचना । म्लानानना महाशोकात् , हिमदग्धेव पद्मिनी ॥२१२।। ईदृशीं वीक्ष्य स श्रेष्ठी, पप्रच्छ प्रेयसीं पुनः । कथमद्वेजिताऽद्य त्वं, दृश्यसे कमलानने ? ॥२१३॥ गद्गदाक्षरशब्देन, पत्नी प्रोवाच वल्लभम् । भवत्प्रसादतो नाथ !, मां दूनयति कोऽपि न ॥२१४।। परं दुःखकरं कर्म, यत्केनापि न लुप्यते । अधुना भोजनं तावत् , कुरूत्सूरं च मा कुरु ॥२१५॥ भोजनानन्तरं सर्वं, कथयिष्यामि कारणम् । अग्रेदक्षा इदं प्राहुः, प्रथमं भोजनं फलम् ॥२१६।। एवं संतोष्य सद्वाण्या, श्रेष्ठिनं हेतुयुक्तया । कारयामास सा दक्षा, स्नानाद्यां भोजनक्रियाम् ॥२१७।। भोजनान्ते क्षणं सुप्तः, प्रबुद्धः स्वयमेव सः । ततः पप्रच्छ सत्प्रीत्या, भार्यां दुःखस्य कारणम् ॥२१८॥ जजल्प चित्तसङ्कल्पं, प्रियं प्रति प्रिया ततः । स्वामिन् ! मे बाधते चित्तमनपत्यत्वमेव च ॥२१९॥ वन्ध्याकदर्थना पत्र, परत्र सुगतिर्न हि ।
श्रूयते भारते श्लोकस्तदर्थमवधारय ॥२२०।। यतः- अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च ।
तस्मात् पुत्रमुखं दृष्ट्वा, पश्चाद्धर्म समाचरेत् ॥२२१॥ सख्या गृहे सुतान् वीक्ष्यापत्यचिन्ता ममाप्यभूत् । तच्छ्रुत्वाऽचिन्तयच्छ्रेष्ठी, पुत्रचिन्ताप्रवत्तितः ॥२२२।।
25