________________
5
२०]
[धर्मकल्पद्रुमः अस्मिन्नेव पुरे स्वामिन् ! श्रेष्ठी श्रीपतिरित्यभूत् । षण्णवतिगृहे यस्य बभूवुर्धनकोटयः ॥१९८।।। सद्भार्या श्रीमती तस्य, शीलसौभाग्यभूषणा ।
दक्षा सर्वेषु कार्येषु , बभूव गुणशालिनी ॥१९९॥ काव्यम्- दासी कर्मणि नर्मणि प्रियसखी मन्त्री च मन्त्रक्रमे,
शृङ्गाराऽमृतकूपिका, मधुरवाक् दुःखे सुखे तन्मयी । लज्जालुः कुलवृद्धिकल्पलतिका सर्वस्व विश्वासभूः, पत्नी प्रेमपवित्रिता यदि परं पुण्यैः समासाद्यते ॥२००॥ तया साधू महासौख्यं, विलसत्यधिकाधिकम् । करोति धर्मकार्यञ्च, कालं यान्तं न वेत्ति सः ॥२०१॥ सान्यदा सुखगोष्ठ्यर्थं, गताऽभूत् स्वसखीगृहे । लालयन्ती स्वडिम्भानि, तया दृष्टा तदा सखी ॥२०२॥ एकं स्कन्धेऽपरं कट्यामेकं द्वे च गृहाङ्गणे । तबालकानि वीक्ष्येति, सा दध्यौ श्रीमती हृदि ।।२०३।। एषा पुत्रवती धन्या, हा हा धिग् मम जीवितम् ।
वन्ध्यादोषान्मया यस्मात् , कुलं पत्र्यं कलङ्कितम् ॥२०४।। यतः- गन्धहीनं यथा पुष्पं, तटाकमिव निर्जलम् ।
कलेवरमिवाजीवं, धिग्नारीजन्म निःसुतम् ॥२०५॥ स्फारभूषणभाराऽपि, न भाति स्त्री सतं विना । उदारतरतारापि, निशेव शशिवर्जिता ॥२०६॥ पतिवंशप्रवाहस्य, कृतश्छेदोऽधुना पुनः । किं करोमि ? क्व गच्छामि ?, दर्शयामि कथं मुखम् ? ॥२०७।। सातिदुःखातुरा जाता, वलिता च गृहे गता । सुतार्तिपीडितात्यन्तं, सुप्ता चावासकूणके ॥२०८॥ भोजनावसरे श्रेष्ठी, स्वसद्मनि समागतः । नैव दृष्टा यदा पत्नी, तदा चेतस्यचिन्तयत् ॥२०९।।
25