________________
प्रथमः पल्लवः ]
श्रीरहिता नरा ये च, दारिद्यालङ्कृताश्च ये । तेषामेव दशा देहे, दुर्वाच्या भवतीदृशी ॥ १८६॥ उक्तञ्च- दारिद्याधिगमे जीव- देहस्थाः पञ्च देवताः ।
सद्यो निर्गत्य गच्छन्ति, श्रीह्रीधीकान्तिकीर्त्तयः ॥ १८७॥ अन्यच्च - शीलं शातयति श्रुतं शमयति प्रज्ञां निहन्त्यादरात्, दैन्यं दीपयति क्षमां क्षपयति व्रीडामपि व्यस्यति । तेजो जर्जरयत्यपास्यति धृतिं विस्तारयत्यर्थिताम्, पुंसः क्षीणधनस्य किं न कुरुते वैरी कुटुम्बं गृहे ? ॥१८८॥ यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ १८९॥ 10 स्वामिन् ! मेऽपहृतं द्रव्यं तेनाहं धनवर्जितः ।
अवस्थामीदृशीं प्राप्तः, पूर्वदुष्कृतकर्मतः ॥१९०॥
[ १९
अकारणं सत्त्वमकारणं तपो, जगत्त्रयव्यापि यशोऽप्यकारणम् । अकारणं रूपमकारणं गुणाः, पुराणमेकं नृषु कर्म कारणम् ॥१९१॥
प्रभो प्रसादमाधाय, चित्ते कृत्वा कृपां यदि । वालयिष्यसि मे द्रव्यं, दारिद्यं तर्हि यास्यति ॥१९२॥ पुनः पृथ्वीपतिः प्राह, सत्यं कथय किं गतम् ? । किञ्चिदन्यद्गतं मन्ये, कथं ते हेमजो नरः ॥१९३॥ प्राहुः सभ्यास्तदा देव ! यदसौ वक्ति तत्तथा । उष्ट्रस्य कण्टका भक्ष्यं, युक्तं द्राक्षा तु नोचिता ॥१९४॥ यतः - करहा कण्टउ चारकीय, एवही भलीय परिक्ख ।
कमलवणइ हंसा वसइ, ठाम दिउं जोड़ मुक्ख ॥ १९५॥ पुनः प्रोवाच भूपालः, कृपालुस्तं नरं प्रति । कथमुत्पादितः स्वर्णनरो ब्रूहि नरोत्तम ? ॥१९६॥ तेनोक्तं शृणु राजेन्द्र !, सुवर्णपुरुषस्य ते । उत्पत्तिं मत्कथापूर्वं, कथयामि यथातथम् ॥१९७॥
5
15
20
25