________________
[धर्मकल्पद्रुमः प्रतीहारवचः श्रुत्वा, कृत्वा तु स्थिरमानसम् ।
इति स्मृतिवच:सारं, सस्मार पृथिवीपतिः ॥१७३॥ यतः- दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् ।
अन्यायपरिभूतानां, सर्वेषां पार्थिवो गतिः ॥१७४॥ विचिन्त्यैवं नृपः प्रोचे, स मध्ये मुच्यतां पुमान् । आगतो वेत्रिमुक्तोऽसौ, पूत्कर्वन् नृपसंसदि ॥१७५।। शुभवाक्यैः कृतः स्वस्थः, आश्वास्य चोपवेशितः । राज्ञोचे वद भो भद्र !, किं ते दुःखस्य कारणम् ? ॥१७६।। केन त्वं मुषितश्चात्र, ? पराभूतोऽसि केन वा ? । किं त्वदीयं हृतं केन ? कथय त्वमशतिः ॥१७७|| तेनोक्तं शृणु राजन् ! मे, सुवर्णपुरुषो गतः ।
किं कुर्वेऽहं ? क्व गच्छामि ?, कस्याग्रे पूत्करोम्यहम् ? ॥१७८।। यतः- पञ्चमो लोकपालस्त्वं, कृपालुः पृथिवीपतिः ।
दैवेनाहं पराभूत, आगतः शरणं तव ॥१७९॥ कुवस्त्रं मलिनं दीनं, दुर्बलाङ्गञ्च तं नरम् । दृष्ट्वा प्रोवाच भूपालः, किमयुक्तं ब्रवीष्यदः ? ॥१८०।। दरिद्रसदृशं रूपं, दुरवस्था तवेदृशी ।
स्ववपुश्चेष्टया भद्र, ! विमृश्यैव तदुच्यते ॥१८१।। यतः- कुचेलिनं दन्तमलावधारिणं, बह्वाशनं निष्ठरवाक्यभाषिणम् ।
सूर्योदये चास्तमने च शायिनं, विमुञ्चति श्रीर्यदि चक्रपाणिम् ॥१८२॥ सुजीर्णमन्नं सुविचक्षणः सुतः, सुराधिता श्रीपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत्कृतं, तद्दीर्घकालेऽपि न याति विक्रियाम् ॥१८३॥ भवादृशां गृहे स्वर्णपुरुषो यदि विद्यते । तदाश्चर्यमिदं लोके, दृश्यते विपुलं किल ॥१८४॥ स नरः प्राह हे स्वामिन् !, शोभनं शृणु मे वचः । ये श्रियाऽलङ्कृताः सन्ति, शोभन्ते ते दिवानिशम् ॥१८५।।
25