________________
प्रथमः पल्लवः ]
समागत्य स्वसंस्थाने, स सुप्तः शेषशर्वरीम् । निद्रात्यागे च प्रत्यूषे, प्रात: कृत्यानि चाकरोत् ॥१६१॥ देवध्यानं गुरुध्यानं, कृत्वा स्मृत्वा नमस्क्रियाम् । माङ्गल्यतूर्यपूर्व्वञ्च, ययौ राजसभां सुधीः ॥१६२॥ प्रणिपत्य पितुः पादानुपविष्टो यथासने ।
यतः- ते
पित्रा पृष्टं सुखी वत्स !, सोऽप्याह त्वत्प्रसादतः || १६३ || पुत्रा ये पितुर्भक्ताः, स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः, सा भार्या यत्र निर्वृतिः ॥ १६४॥ सभां सम्पूर्य राजाऽसौ, विशिष्टैः सेवकैर्वृतः । सिंहासने स्थितस्तुङ्गे, यथा पूर्वाचले रविः || १६५।। तदा च वरनारीभि-र्वीज्यते चामरद्वयम् । पूतं श्वेतातपत्रं च ध्रियते मस्तकोपरि || १६६ || गन्धर्वैश्च गुणग्रामोऽभिरामो गीयते कलम् । जय नन्देतिनिर्घोषैः, पठ्यते बन्दिभिर्भृशम् ॥१६७॥ पुरो नृत्यन्ति पात्राणि, राजाऽसौ पूर्वपुण्यतः । मन्त्रिसामन्तमध्यस्थः, सुरेन्द्र इव शोभते ॥ १६८॥ काव्यम् - राज्यं प्राज्यं मदजलकणान् स्यन्दमाना गजाली, तुङ्गाभोगाः पवनजविनो वाजिनः स्यन्दनाश्च । दर्पाध्माताः सुभटनिकराः कोशलक्ष्मीः समग्रा, सर्वं चैतद्भवति नियतं देहिनां धर्मयोगात् ॥ १६९॥ अथाऽस्मिन् समये तत्र, वेत्रिणेति निवेदितम् । स्वामिन् ! कोऽपि पुमान् राज-द्वारे पूत्कुरुते भृशम् ॥१७०॥ मस्तके क्षिप्तधूलिश्च, प्रतोलीस्तम्भमाश्रितः । दीनाननो हीनवस्त्रस्तेजोभाग्यविवर्जितः ॥ १७१ ॥
मुषितो मुषितोऽस्मीति स च वक्ति मुहुर्मुहुः । देव ! तस्य वराकस्य, ददाम्यथ किमुत्तरम् ? ॥ १७२॥ युग्मम् ॥
[ १७
5
10
15
20
25