________________
5
10
151
20
25
१६]
पुष्पप्रकरसङ्कीर्णे, पल्यङ्के कोमलान्विते ।
शृणोति स्म शिवाशब्द, सुश्रु (श्र) वञ्च सकारणम् ॥१४८॥ युग्मम् ॥ किञ्चिन्निद्रो जजागार, कुमारश्चेत्यचिन्तयत् ।
अहो एष शिवाशब्दो मम लाभं हि शंसति ॥१४९॥
वामस्वरा शिवा श्रेष्ठा, पिङ्गला दक्षिणस्वरा । प्रदक्षिणा च वामा च, कोकिला सिद्धिदायिनी ॥ १५० ॥ यथाहं वेद्मि शब्दार्थं, कोऽपि वेत्ति तथाऽपरः । ममाग्रेऽस्ति धनं बहु ॥ १५१ ॥ श्रुत्वा सत्पुरुषाग्रणीः ।
स गृह्णाति तदा भव्यं
पुनः शिवां रटन्तीं तां
को न वेत्ति शिवाप्रोक्तमिति निर्णीतवान् हृदि ॥१५२॥
[ धर्मकल्पद्रुमः
समुत्थाय स पल्यङ्कात्, वीरकच्छां विधाय च । खड्गधारा(षट्क्रोडन) धरो भूत्वा धृत्वा धैर्यं च मानसे ॥१५३॥
शिवाशब्दानुसारेण, व्रजन् मार्गे पुराऽन्तरे ।
चतुष्पथमतिक्रम्य, दुर्गं चोल्लङ्घ्य वेगतः ॥ १५४॥
क्षणात् प्राप महोद्याने, स्मशानं सर्वभीभृतम् । रौरवं घोरतमसा, बीभत्सं बहिरन्तरा ॥ १५५ ॥ क्वचित्करालकङ्काल-वेतालव्यालसङ्कुलम् । क्वचिद्रौद्रतराराव- वराहव्याघ्रभीषणम् ॥१५६॥ घूकघूत्कारसंव्याप्तं, संकीर्णं सिंहशम्बरैः ।
तत्र शब्दानुसारेणाग्रेऽग्रे धीरो जगाम च ॥ १५७ ॥ पञ्चभिः कुलकम् ॥ ददर्शाग्रे स उद्योतं, ज्वलन्तं चाग्निकुण्डकम् । झात्कारकान्तिमान्स्वर्ण- पुरुषस्तत्र वीक्षितः || १५८।। देदीप्यमानमत्यन्तं, दृष्ट्वा तं स्वर्णपौरुषम् । आसिक्त्वा (च्य) शीतलीचक्रे, समीपस्थितवारिणा ॥ १५९ ॥
ततस्तं बहिराकृष्य, खनित्वा भूमिमन्यतः । निक्षिप्य विधिवत्तत्र, वलितोऽसौ सुविस्मयः ॥१६०॥