________________
प्रथमः पल्लवः ]
स्मित्वा धात्रीधवः प्राह, श्रृणु वत्स ! सुसात्त्विक ! | पुरापि श्रूयते ह्येवं, सुखं नास्त्येव सेवया ॥ १३७।।
काव्यम् - सोच्छ्वासं मरणं निरग्नि दहनं निःशृङ्खलं बन्धनम्, निष्पङ्कं मलिनं विनैव नरकं तीव्रा महावेदना । सेवासंजनितं नरस्य सुधियो यत्पारवश्यं नृणाम्, पञ्चानां सविशेषमेतदपरं षष्ठं महापातकम् ॥१३८॥ जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते । दरिद्री व्याधितो मूर्खः, प्रवासी नित्यसेवकः ॥१३९॥ वृद्धौ च मातापितरौ, साध्वी भार्या शिशुः सुतः ।
अप्यकार्यशतं कृत्वा, भर्त्तव्यान्मुनि ( न्मनु ) रब्रवीत् ॥१४०॥ *मातृपित्रोरभरकः, क्रियामुद्दिश्य याचकः ।
मृतस्यांशप्रतिग्राही, न भूयः पुरुषो भवेत् * ॥१४१॥ धृत्वाञ्जलिं सुतोऽप्यूचे, ईदृशं तात ! मा वद । यस्य भाग्यं भवत्युग्रं, मातापित्रोः स सेवकः ॥ १४२॥ राज्यार्थे निश्चयं ज्ञात्वा, भूधरो हर्षपूरितः । सुताय प्रददौ कोशं, समग्रं शुभलक्षिणे ॥१४३॥ स्वाङ्गरक्षाकृते तस्य, प्रसादं कृतवान्नृपः । समग्रविषये चाधिकारी संस्थापितः पुनः ॥ १४४॥ पुत्रपित्रोस्तयोः प्रीत्या, कालो याति सुखान्वितः । दिनैः संपद्यते सर्व्वं, 'पुण्यैः किं नाम दुष्करम् ? ' ॥१४५॥ वशीभवन्ति विश्वानि, विलीयन्ते विपत्तयः । संपदश्च हि सिध्यन्ति, पश्य धर्म्मानुभावतः ॥१४६॥ अन्यदाऽसौ चन्द्रयशाः, सुखं सुप्तो निशाभरे । सप्तभूमियुते सौधे, रत्नैर्ध्वस्ततमोव्रजे ॥१४७॥
★★ नेदृक्चिह्नाङ्कितं प्रत्यन्तरे ।
[ १५
5
10
111
15
20