________________
5
10
15
20
१४]
बाह्यानि लक्षणान्येतान्येतान्यभ्यन्तराण्यपि ।
सामुद्रिके तथोक्तानि, रेखाभिः करपादयोः ॥ १२६॥ प्रासादपर्वतशुकङ्कुशप्रतिष्ठ-पद्माभिषेकयवदर्प्पणञ्चामराणि ।
कुम्भोऽक्षमत्स्य मकरद्विप सैत्पाताका, सद्दामनीवसुमतीरथतोरणानि ॥१२७॥
२२
२६
३०
छत्रं ध्वजः स्वस्तिकयूपवापी- कमण्डलू स्तूपमयूरकूर्म्माः । अष्टापदस्थाल समुद्रसिंहा, द्वात्रिंशदेवं नरलक्षणानि ॥१२८॥ इत्थं शरीरचिह्नानि, दृश्यन्ते यस्य हि स्फुटम् । स भोगी सत्त्वान् दाता, भूपतिश्च प्रजायते ॥१२९॥ चन्द्रयशाः स बालत्वे, देहलक्षणलक्षितः । विज्ञानवेशभाषासु, बभूव चतुरो नरः ॥१३०॥ अष्टादशलिपीनाञ्च, धूर्त्तवादेन्द्रजालयोः । सर्वपारसिकानाञ्च ज्ञाताऽभूत् स महामतिः ॥१३१॥ स क्रमात् प्राप तारुण्यं, युवतीजनमोहनम् । युवराजपदे न्यस्तः पित्राऽथ गुणरञ्जनात् ॥१३२॥ विचाराचारसन्तोष - ज्ञानधर्म्मतपः क्षमाः । सौजन्यौदार्यमुख्याश्च, गुणास्तेनार्जिता भृशम् ॥१३३॥ इत्थं तं गुणिनं ज्ञात्वा, प्रजारागमपि स्फुटम् । राज्यदानाय तस्याथ, भूपोऽभूदुत्सुकः पुनः ॥ १३४॥ नेत्राम्बुपूरितः पुत्रः प्रोवाच पितरं प्रति । निश्चिन्तोऽहं सुखी चास्मि त्वत्पादाम्बुजसेवनात् ॥१३५॥
यतः - क्व पर्व्वपीयूषकरः ? क्व तारका: ?,
[ धर्मकल्पद्रुमः
क्व च स्वयम्भूरमणः ? क्व गोष्पदम् ? ।
क्व सन्मणिः ? क्वेह च कर्कराश्च ?,
क्व शं प्रभूपासनजं ? क्व राज्यम् ? ॥१३६॥
१. 'देश' पाठान्तरम् ।