________________
प्रथमः पल्लवः ]
लिखितं पठितं गीतं, नृत्यं वादित्र संस्कृते ।
इत्याद्याः शिक्षिता येन, सर्वा द्वासप्ततिः कलाः ॥ ११३ ॥ सिंहो बकः कुर्कुटश्च, काकश्वानौ खरस्तथा । विंशतिर्ये गुणा एषां, तस्य देहे वसन्ति ते ॥११४॥ उक्तञ्च- प्रभूतकार्यमल्पं वा, यो नरः कर्तुमिच्छति ।
सर्व्वारम्भेण तत्कार्यं, सिंहादेकं पदं यथा ॥ ११५ ॥ इन्द्रियाणि च संयम्य, बकवत्पण्डितो नरः । देशकालोपपन्नानि, सर्वकार्याणि साधयेत् ॥११६॥ प्रागुत्थानञ्च युद्धञ्च, संविभागं च बन्धुषु । स्त्रियमाक्रम्य भुञ्जीत, शिक्षेच्चत्वारि कुक्कुर्टात् ॥११७॥ गूढमैथुनधारिष्ट्यं, काले चालयसंग्रहम् । अप्रमत्तमविश्वासं, पञ्च शिक्षेत वायसात् ॥११८॥ बह्वाशी चाल्पसन्तुष्टः, सुनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥ ११९॥ आरूढश्च(ढं च) वहेद् भारं, शीतोष्णं न च विन्दति । सन्तुष्टश्च चरेन्नित्यं, त्रीणि शिक्षेत रासभात् ॥१२०॥ यस्य पुंसो गुणा एते, कथ्यते सुगुणः स हि । द्वात्रिंशदिति कथ्यन्ते, लक्षणानि नरस्य च ॥१२१॥ तथा च- कुलीनः पैण्डितो वाग्मी, गुणग्राही सदोत्तमः । सत्पात्रसंग्रही त्यागी, गम्भीरो विनयी नयी ॥१२२॥ शृङ्गारी श्लाघया युक्तः, सत्यवाक् शुद्धमानसः । गीतज्ञो रैंसिको वादी, गुप्तार्थः दानसुप्रियः ॥१२३॥ मन्त्रवादी कलायुक्तः, सुद्धनी च विचक्षणः । धूर्तो मिष्टान्नभोजी च, तेजोवान् धामिकस्तथा ॥ १२४॥ कपटी लेखकः क्षान्तः, पैरचित्तोपलक्षकः । ज्ञातार्थः सर्वग्रन्थेषु लक्षणानि नरोत्तमे ॥१२५॥ १. धार्यम् ।
१४
३०
[ १३
5
10
15
20
25